अत्र साधनशब्देन साक्षिण उच्यन्ते, वा शब्दः परस्परमभिसंबध्यते । लिखितं वा साक्षिणो वा भुक्तं वा समुद्दिशेदित्यर्थः । कैश्चिद्विशेषणैर्युक्ताया भुक्तेः प्रामाण्यं दर्शयति कात्यायन:--
प्रमाणेषु भुक्तेः प्राबल्यम्
"लिखितं साक्षिणो भुक्तिः प्रमाणत्रयमिष्यते ।
प्रमाणेषु [१]स्थिरा भुक्तिः सल्लेख्या संमता नृणाम् ॥
इति । सल्लेख्यमनवद्यलेख्यम् । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्दान्तर्भावाद्युक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यमिति चेदुच्यते । भुक्तिरपि कैश्चिद्विशेषणैर्युक्ता स्वत्वहेतुभूतक्रयदानादिकमव्यभिचारादनुमापयति । अन्यथाऽनुपपद्यमाना कल्पयतीत्यनुमानेऽर्थापत्तौ वाऽन्तर्भवतीति प्रमाणमेव ।
भुक्तेरेव प्राबल्यस्थलानि.
क्वचिद्भुक्तेरेव श्रैष्ठ्यमितराभ्यामित्याह स एव--
"रथ्यादिनगरद्वारजलवाहादिसंशये ।
भुक्तिरेव तु गुर्वी स्यात्प्रमाणेष्विति निश्चयः ॥"
इति । स्थावरेषु विशेषमाह नारदः--
"विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु ।
विशेषतस्स्थावराणां यन्न भुक्तं न तत् स्थिरम् ॥"
- ↑
स्मता भुक्तेस्सल्लेख्यसमता नृणाम् स्मचंपा.