पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५६

पुटमेतत् सुपुष्टितम्
125
व्यवहारकाण्डः

कस्याश्चिदुक्तेः कार्यान्तरमाह याज्ञवल्क्यः--

"पश्यतोऽब्रुवतो भूमेर्हानिर्विशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥"

परेण असंबन्धेन भुज्यमानां भुवं धनं वा पश्यतः अब्रुवतः मदीयेयं भूः त्वया न भोक्तव्येत्यप्रतिषेधतस्तस्या भूमेः विंशतिवार्षिकी विंशतिवर्षोपभोगनिमित्ता हानिर्भवति धनस्य तु हस्त्यश्वादेर्हानिः दशवार्षिकी । नन्वेतदनुपपन्नम् न ह्यप्रतिषेधात्स्वत्वमपि गच्छति । अप्रतिषेधस्य दानविक्रयादिवत् स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षभोगात्स्वत्वम् । उपभोगस्य स्वत्वे अप्रमाणत्वात् । प्रमाणस्य प्रमेयं प्रत्यनुत्पादकत्वात् । रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथाहि-- स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्धम् । क्षत्रियस्य विजितम्, निर्विष्टं वैश्यशूद्रयोरित्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति । न भोगम् । नचेदमेव वचनं विंशतिवर्षोपभोगस्य स्वत्वापत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावस्य धनार्जननयव्युत्पाद्यत्वात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते । गौतमवचनं तु नियमार्थम् । अपि च--

"अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥"

इत्येतदप्यनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । न च "अनागमं तु यो भुङ्क्ते" इत्येतत्परोक्षभोगविषयम् । "पश्यतोऽब्रुवत"