पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५७

पुटमेतत् सुपुष्टितम्
126
श्रीसरस्वतीविलासे

इत्येतत् प्रत्यक्षविषयं युक्तं वक्तुम् । "अनागमं तु यो भुङ्क्ते" इति अविशेषाभिधानात् ।

"नोपभोगे बलं कार्यमाहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः" ॥

इति कात्यायनवचनाच्च । समक्षभोगे च हानिकारणाभावेन हानेरसंभवात् । न चैतन्मन्तव्यं आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यापवादेन भूमिविषये विंशतिवर्षोपभोगयुक्ताया धनविषये दशवर्षोपभोगयुक्तायाः उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यत इति । यतस्तेषु उत्तरैव क्रिया तत्वतो नोपपद्यते । स्वयमेतच्चाधेयं देयं विक्रेयं च भवति । न चापि तस्य विक्रीतस्य दत्तस्य वा स्वत्वमस्ति अस्वत्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते--

"अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति ।
उभौ तौ चोरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥"

इति । अथ आध्यादीनां त्रयाणामपवादत्वे अस्य वचनस्य--

"आधिसीमोपनिक्षेपजलबालधनैर्विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥"

इत्याध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेः विंशतेर्धनस्य दशभ्यो वर्षेभ्य ऊर्ध्वमप्युपचयहानिर्भवतीति उत्तरे वचने अपवादो नोपपद्यते । तस्माद्भूम्यादीनां हानिरनुपन्नैव । नापि व्यवहारहानिः । यतः--