पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१५९

पुटमेतत् सुपुष्टितम्
128
श्रीसरस्वतीविलासे

इति । तदपि न; अध्यादिष्वपि विंशतेरूर्ध्वं पत्रदोषोद्भावनस्य तन्निरासकरणस्य च समत्वेनापवादासंभवात् । यथाऽह कात्यायनः--

"अथ विंशतिवर्षाणि आधिभुक्तिस्सुनिश्चिता ।
तेन लेख्येन तत्सिद्धिः लेख्यं तद्दोषवर्जितम् ।
सीमाविवादे निर्णिते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्याः यावद्वर्षाणि विंशतिः" ॥

इति । अतश्च धनस्य दशवार्षिकीत्येतदपि प्रत्युक्तं वेदितव्यम् । एतेन चन्द्रिकाकारोक्तं "हानिश्चात्र लिखितबलेन आत्मीयत्वप्रसाधनमात्रस्याभिप्रेता । न पुनर्भूम्यादौ तत्फले वा स्वत्वस्य वेति । नोपेक्षामात्रेण स्वत्वमपैतीत्युक्तत्वादित्यपास्तम् । विंशतिवार्षिकीत्यत्र वचने विंशतिग्रहणेन विंशतेरूर्ध्वं पत्रदोषोद्भावननिराकरणार्थत्वस्य प्रत्युक्तत्वात् ।

भोगबलाबलव्यवस्था.

 तदयमत्र निष्कर्षः-- भूमेर्धनस्य च न स्वरूपहानिः । नापि व्यवहारहानिः । किन्तु फलहानिरिह विवक्षिता । निराक्रोशविंशतिवर्षोपभोगादूर्ध्वं यद्यपि स्वामी व्यवहारतः क्षेत्रं लभते । तथाऽपि फलानुसरणं न लभते । अप्रतिषेधलक्षणात्स्वापराधादस्माच्च वचनादेव ।

 परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव । पश्यत इति वचनात् । प्रत्यक्षभोगे च साक्रोशे अब्रुवत इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते । विंशतिग्रहणात् । अतश्च स्वाम्युपेक्षालक्षणस्वापराधात् । अस्माच्च वचनाद्विंशतेरूर्ध्वं नष्टं फलं न लभते । अनागमभोगे तु--