पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६०

पुटमेतत् सुपुष्टितम्
129
व्यवहारकाण्डः

भोक्ता--

"अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चोरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥"

इत्यनेन प्रोक्तं दण्डं नार्हति, हानिर्विंशतिवार्षिकीत्यनेन तदुक्तदण्डस्यापोद्यत्वादिति स्थितमिति विज्ञानेश्वरः । [१]एतेन दशवार्षिकीत्येतदपि व्याख्यातम् । अत एव व्यासः--

"वर्षाणि विंशतिर्यस्य भूमिर्भुक्तापरैरिह ।
सति राज्ञि समर्थस्य तस्य सेह न सिध्यति" ॥

अत्रापवादमाह मनुः--

"संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुरुष्ट्रो वहन्नश्वो यच्च दम्यः प्रयुज्यते" ॥

अत एव मनुः--

"आधिश्च सीमाऽऽत्मधनं निक्षेपोपनिधिस्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं नोपभोगेन नश्यति" ॥

आधेः भुक्तौ आधिर्त्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नः चिरकृततुषाङ्गारादिगोप्यचिह्नैस्सुसाधनत्वादुपेक्षा संभवति । नात्मधनस्य बन्धुभिरुपयोगे संबन्धित्वेनोपेक्षा संभवः । केचिन्नाटधनं--शैलूषधनमिसाहुः । तेषामभिनयाद्यभ्यासादिनिविष्टचित्तत्वाद्युक्तमुपेक्षणम् । निक्षेपोपनिध्योर्लक्षणमष्टादशपदनिरूपणापसरे निरूपितम् । तयोरुपनिधाननिक्षेपणकाले भुक्तेः प्रतिषिद्धत्वात्प्रतिषेधातिक्रमोपभोगे सोदयलाभादुपेक्षोपपत्तिः । स्त्रीणामप्रागल्भ्यादज्ञानाच्च



 S.VILASA.
17
 
  1. एतेन धन्यस्य दशवा.