पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६१

पुटमेतत् सुपुष्टितम्
130
श्रीसरस्वतीविलासे

श्रोत्रियस्याध्ययनाध्यापनतदनुष्ठानव्याकुलत्वात् राज्ञो बहुकार्यव्याकुलत्वादुपेक्षा युक्तैवेत्येवमादिषु सर्वत्रोपेक्षाकारणसंभवात् प्रत्यक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः । कस्याश्चिद्भुक्तेः प्रामाण्यमाह पितामहः--

"सागमा दीर्घकाला च विच्छेदोपरवोज्झिता ।
प्रत्यर्थिसन्निधाना च भुक्तिः पञ्चविधा स्मृता" ॥

उपरवः-- आक्रोशः । पञ्चविधेति-- पञ्चाङ्गेति यावत् । अत एव व्यासः--

"सागमो दीर्घकालश्च विच्छेदोपरवोज्झितः ।
प्रत्यर्थिसन्निधानश्च पञ्चाङ्गो भोग इष्यते" ॥

इति वदन् एकाङ्गवैकल्येऽप्यप्रामाण्यमेव भोगस्येति दर्शयति, तथा च नारदः--

[१]"संभोगं केवलं यस्तु कीर्तयेन्नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयस्स तु तस्करः" ॥

तेन सभ्यसन्निधावागमादिकमप्यङ्गं कीर्तनीयमित्यभिप्रायः । अत एवाऽऽह कात्यायनः--

"प्रणष्टाऽऽगमलेख्येन भोगाऽऽरूढेन वादिना ।
कालः प्रमाणं दानं च कीर्तनीयानि संसदि" ॥

इति । दानग्रहणमागमोपलक्षणार्थम् । चशब्दः सातत्यादिविशेषणग्रहणार्थः । तदयमत्र निष्कर्षः-- भोगैकप्रमाणवादिना भोगाऽऽख्यप्रमाणं तद्विशेषणानि आगमदीर्घकालादीनि च कीर्तनीयानि । कीर्तितानि च तद्विप्रतिपत्तौ साधनीयानि । कीर्तनमात्रेण निश्चयाभावात् ॥



  1. भोगं केवलतो यस्तु.