पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६३

पुटमेतत् सुपुष्टितम्
132
श्रीसरस्वतीविलासे

"दद्यात्कृष्णाजिनं पुच्छे गां पुच्छे करिणं करे ।
केसरेषु तथैवाश्वं दासीं शिरसि दापयेत्" ॥

इति । तत्र त्रिविधोऽपि स्वीकारः उदकदानानन्तरमेव । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात् स्वल्पेनाप्युपभोगेन भवितव्यम् । अन्यथा दानविक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकलतया आगमो दुर्बलो भवतीति । अत्राऽऽगमस्य दौर्बल्यमात्रमित्याह नारदः--

"आदौ तु कारणं दानं मध्ये भुक्तिस्तु साऽऽगमा" ॥

इति । अयमर्थः- आद्ये पुरुषे साक्षिलेख्याभ्यां भावित आगमो भोगादप्यधिको बलवान् । पूर्वक्रमाऽऽगतस्तु भोगो विनाऽपि भावितादागमाच्चतुर्थपुरुषे लिखितेन भावितादागमाद्बलबान् । मध्ये तु भोगरहितादागमात् स्तोकभोगसहितोऽप्यागमो बलवानिति । अत्रेदमुपतिष्ठते याज्ञवल्क्योक्तं--

"आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात्" ।

इति । ननु विना पूर्वक्रमागतादित्यनेन आगमनिरपेक्षत्वेन प्रामाण्यमुक्तं भोगस्य, तच्च आगमोऽभ्यधिको भोगादित्यनेन विरुध्यते इति चेत्, मैवं, स्मार्तास्मार्तकालविषयत्वाद्वचनस्य, आगमोऽभ्यधिको भोगादिति स्मार्तकालविषयम् । विना पूर्वक्रमागतादित्येतदस्मार्तकालविषयं वेदितव्यम् । अतश्च स्मरणयोग्यकाले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवात् आगमज्ञातसापेक्षस्यैव भोगस्य प्राणाण्यम् । अस्मार्तकाले तु योग्यानु