पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१६४

पुटमेतत् सुपुष्टितम्
133
व्यवहारकाण्डः

पलब्ध्यभावेन आगमाभावनिश्चयासंभवात् आगमज्ञाननिरपेक्ष एव सातत्यविशेषणविशिष्टो भोगः प्रमाणम् । अत एवोक्तं कात्यायनेन--

"स्मार्तकाले क्रिया भूमेस्सागमा भुक्तिरिष्यते ।
अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषाऽऽगता" ॥

इति । अनुगमाभावः-- योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवः । स्वत्वहेतुप्रतिग्रहक्रयादिरागमः । ननु यच्च--

"अन्यायेनापि यद्भुक्तं पित्रा [१]पूर्वतमौस्त्रिभिः ।
न तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषागमम्" ॥

इति । पित्रेति सहार्थे तृतीया । क्रमात्त्रिपुरुषागममिति तु स्मार्तकालोपलक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवाद्द्वितीये वर्षे निरागमस्यापि भोगस्य प्रामाण्यप्रसङ्गात् ।

"स्मार्तकाले क्रियाभूमेस्सागमा भुक्तिरिष्यते" ॥

इति । स्मृतिविरोधश्च स्यात् । किन्तु अन्यायेनापि भुक्तमपहर्तुं न शक्यम् । किं पुनरन्यायानिश्चय इत्येवं परम् । यत्तूक्तं--

"यद्विनाऽऽगममत्यन्तं भुक्तं पूर्वैस्त्रिभिर्भवेत् ।
न तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषाऽऽगतम्" ॥

इति, तत्रात्यन्तमागमं सातत्यादिगुणविशेषणविशिष्टमुपलभ्यमानं विनेति व्याख्येयम् । न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तं विज्ञानयोगिना--



  1. पूर्वतरै (नै)