पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७०

पुटमेतत् सुपुष्टितम्
139
व्यवहारकाण्डः

न साक्षी नृपतिः कार्यः वै न [१]कामुककुशीलवाः ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विवर्जितः ॥
न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ।
नाथ्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥"

इति । अर्थसंबन्धिनः-- प्रतिपाद्यार्थसंबन्धिनः--- प्रतिभूप्रभृतय इत्यर्थः । यद्वा विप्रतिपद्यमानार्थसंबन्धिनस्सहायाः । दूषिताः महापातकैरभियुक्ताः । श्रोत्रियो वेदाेक्तकर्मानुष्ठानतत्परः न तु वेदपाठकः । तस्य साक्षित्वेनाभिधानात् । लिङ्गस्थो ब्रह्मचारी । सङ्गेभ्यो विवर्जितः वानप्रस्थः । एक इति उभयाननुमतः । एकस्योभयानुमतस्य एकोऽप्युभयसंमत इति साक्षित्वाभिधानात् । अन्त्यः चण्डालादिः । एतच्चण्डालादिव्यतिरिक्तव्यवहारविषयम् । तत्कुलव्यवहारेषु तदीयानामेव साक्षित्वनियमात् । 'तत्कुलीनास्तत्कुलव्यवहारे साक्षिणः, इति स्मृतेः । [२]वक्तव्यः बोध्यः । दस्युः पश्यतो हरः । मत्तादीनां लक्षणं पूर्वमेवोक्तम् । तस्करस्सुरुङ्गादेर्निर्माता । असाक्षिणां पाञ्चविध्यमाह नारदः--

असाक्षिणः.

"असाक्ष्यपि विनिर्दिष्टः शास्त्रे पञ्चविधो बुधैः ।
वचनाद्दोषतो भेदात् स्वयमुक्तिर्मृतान्तरः ॥"

अयमर्थः-- असाक्षिहेतूनां पञ्चविधत्वात् तन्मूलेन असाक्ष्यपि पञ्चविध इति । वचनादसाक्षिणो याज्ञवल्क्य आह--



  1. कारुत.
  2. वक्तव्यः-- कष्ठादिना कत्सितदेहः-- (इति स्मृति च)