पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७१

पुटमेतत् सुपुष्टितम्
140
श्रीसरस्वतीविलासे

"श्रोत्रियास्तापसा वृद्धाः ये तु प्रव्रजितादयः ।
असाक्षिणस्ते वचनान्नात्र हेतुरुदाहृतः" ॥

इति । तापसः-- वानप्रस्थः । आदिशब्देन पित्रा विवदमानानां ग्रहणम् । यथाऽऽह शङ्खः-- "पित्रा विवदमानगुरुकुलवासि वानप्रस्थनिर्गन्धा असाक्षिणः" इति । नारदेन दोषादसाक्षिणो दर्शिताः--

"स्तेनास्साहसिकाश्चण्डाः कितवा वधकास्तथा ।
असाक्षिणस्तु दुष्टत्वात् तेषु सत्यं न विद्यते" ॥

इति । भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम् ।

"साक्षिणां लिखितानां च निर्दिष्टानां च वादिनाम् ।
तेषामेकोऽन्यथावादी भेदात्सर्वे न साक्षिणः" ॥

इति । अत्र लिखितग्रहणात् अकृतसाक्षिणां भेदेऽपि न साक्ष्यहानिरित्युक्तम् । स्वयमुक्तिस्वरूपं स एवाह--

"स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्ययो वदेत् ।
सूचीत्युक्तस्स शास्त्रेषु न स साक्षित्वमर्हति" ॥

इति । मृतान्तरस्यापि लक्षणमाह व्यासः--

"अर्थी यत्र न विद्येत तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी वा मृतो यत्र तत्राप्येवं प्रकल्पयेत्" ॥

अयमर्थः-- अर्थिना वा प्रत्यर्थिना वा साक्षिणो 'यूयमत्रार्धे साक्षिण' इति योऽर्थः श्रावयितव्यो भवेत् तस्मिन् अर्थिनि प्रत्यर्थिनि वा असति मृते वा साक्षी मृतान्तर इति ॥