"प्रत्यर्थिनोऽर्थिनो वाऽपि साक्षिदूषणसाधने ।
न तु साक्ष्यभियोगस्स्यात् व्यवहारान्तरं तथा" ॥
इति । प्रमाणदोषविवादनिर्णयः पूर्वव्यवहारमध्य एव कर्तव्य इत्यभिप्रायः । न च व्यवहारमध्ये व्यवहारान्तरनिर्णयस्य अनुचितत्वादयुक्तमिति वाच्यम्, प्रमाणदोषविवादनिर्णयस्य पूर्वव्यवहारशेषत्वेन तत्रैव कार्यत्वात् । पृथक्फलाभावेन व्यवहारान्तरत्वाभावाच्चेति । साक्षिणः सर्वे यस्य वादिनः प्रतिवादिनो वा साध्योक्तिं सत्यामूचुः तस्य जय इत्याह याज्ञवल्क्यः--
साक्षिफलम्.
"[१]यस्योचुस्साक्षिणस्सत्यां प्रतिज्ञां विजयी भवेत्" ।
इति । बृहस्पतिरपि--
"यत्रादोषः प्रतिज्ञार्थस्साक्षिभिः प्रतिवर्णितः ।
स जयी स्यात्"
इति । प्रतिज्ञा-- साध्योक्तिः । यस्य पुनः प्रतिज्ञां साक्षिणः असत्यामूचुः तस्य पराजय इत्याह याज्ञवल्क्यः--
"अन्यथावादिनो यस्य ध्रुवस्तस्य पराजयः" ।
इति ।
क्वचिदनृतसाक्ष्यनुज्ञा.
ननु याज्ञवल्कीयवचने-- "वर्णिनां हि वधो यत्र साक्ष्ये तत्रानृतं वदेत्" इति साक्षिणामनृतवचनेन वर्णिनां विजयित्वात् सत्यवचनेनैव विजयित्वमिति न नियम्यत इति प्रतीयत इति चेन्मैवं, तत्रानृतवचनस्य विहितत्वात्प्रायश्चित्ताददोष इति । न चात्र अनृतवचनं न विहितमिति वाच्यम् । उत्तरार्धे 'तत्पा
- ↑ यत्राशेष. प। स्मृ च अत्रपाठे सत्यत्वेनेतिशेषः.