पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१७७

पुटमेतत् सुपुष्टितम्
146
श्रीसरस्वतीविलासे

वनाय निर्वाप्यश्चरुस्सारस्वतो द्विजैः" इति अनृतवचनजनितदुरितापनोदनप्रायश्चित्तस्मरणात् । नन्वेवमनृतवचनस्य विहितत्त्वाद् तत्प्रायश्चित्तमनुपपन्नमिति चेत्, उच्यते, अत्र विज्ञानयोगिनो मतं-- उत्तरार्धपूर्वार्धयोरेकवाक्यताऽङ्गीकारात् उत्तरार्धार्थानुसारेण अनृतवचनजनितदुरितनिवृत्त्यर्थं सारस्वतश्चरुः कार्यः इति । भगवत्पादमतं तु क्षामवतीष्टिवत् सारस्वतः, अयमर्थः-- तत्पावनाय शुद्ध्यर्थं-- दोषिणां संरक्षणार्थं; एतत्पर्यन्तमेकं वाक्यं, यत्र वर्णिनां वधस्तत्र तत्पावनाय साक्ष्यमनृतं वदेत् अतो नैमित्तिकक्रतुरिति सारस्वतश्चरुर्नैमित्तिक इति । अत्र नैमित्तिकत्वे तत्पावनाय इति पदं नान्वीयादिति अन्यथेति पदमध्याहृत्य व्याचष्टे टीकाकारः, अयमर्थः-- सत्यमेव वदित्वा सारस्वतश्चरुर्नैमित्तिकः । न च सत्यवचनानन्तरं प्राणिव्यापादे जाते तदपनोदनाय सारस्वतश्चरुः मायश्चित्तमात्रमिति वाच्यम् । अनृतवचनस्य विहितत्वात्, विहिताननुष्ठान एव प्रायश्चित्तस्मरणात् । अत्र केचिदेतद्वचनमन्यथा पठित्वा व्याचक्षते-- तत्वावनाय निर्वाप्यत इति । तत्वावनाय-- सत्यसंरक्षणाय । अस्मिन्ननृतेऽपि सारस्वतश्चरुर्नैमित्तिक एव, तत्वावनायेत्यस्यापमर्थः-- तत्वस्य अवनं रक्षणम् । तादृशे समये सत्यमनृतवचनेनैव सेत्स्यतीत्यभिप्रायः । क्रियाग्रहणमात्रे चतुर्थी । यत्र केचित् साक्षिणस्साध्योक्तिं सत्यां केचिदसत्यामूचुः तत्र मनुराह--

साक्षिद्वैविध्ये निर्णयः.

"बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु च गुणोत्कृष्टान् गुगद्वैधे द्विजोत्तमान्" ॥