पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८०

पुटमेतत् सुपुष्टितम्
149
व्यवहारकाण्डः

इति । अस्यार्थः-- ये धनादानादिना कूटं कूटसाक्ष्यं कुर्वन्तीति-- कूटकृतस्साक्षिणो मिथ्यावादिन इति यावत्; ते राज्ञा पृथग्दण्डनीयाः । ब्राह्मणस्तु निर्वास्यः-- राष्ट्रान्निर्वास्यः न दण्ड्यः । एतच्च लोभादिकारणविशेषपीरज्ञाने अनभ्यासे च बोद्धव्यम् । यथाऽऽह मनुः--

"लोभात्सहस्रं दण्ड्यस्स्यात् मोहात्पूर्वं तु साहसम् ।
भयाद्वै मध्यमो दण्डो[१] मैत्र्या पूर्वं चतुर्गुणम् ॥
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् ।
अज्ञानात् द्विशते पूर्णे बालिश्याच्छतमेव तु" ॥

एतद्दण्डस्य कालः.

 अत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधोऽमर्षः । अज्ञानमस्फुटज्ञानम् । वालिश्यं ज्ञानानुत्पादः । एतत्सर्वं सप्ताहादिसाक्ष्यविहितकालप्रतीक्षणानन्तरं वेदितव्यम् । यदि साक्षिद्वैधे गुणवत्तमानां समसङ्ख्याकानामपि अर्थिप्रत्यर्थिनोरन्यतरोऽन्यतरस्य साक्षिणो वचनं नानुमन्यते तत्र वादानन्तरं सप्ताहद्विसप्ताहत्रिसप्ताहषट्चत्वारिंशद्दिवसावधिराजकदैविकप्रतीक्षणं कार्यम् । द्रव्यतारतम्यादित्याह निबन्धनकारः । अत्र कात्यायनः--

"सप्ताहात्तु प्रतीयेत यत्र साक्ष्यनृतं वदेत् ।
रोगोऽग्निर्ज्ञातिमरणं द्विसप्ताहात्त्रिसप्त वा ॥
षट्चत्वारिंशके वाऽपि द्रव्यजात्यादिभेदनः" ।



  1. मैत्रात्पूर्वं, स्मृ, च पा.