पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८१

पुटमेतत् सुपुष्टितम्
150
श्रीसरस्वतीविलासे

 द्रव्यभेदः-- द्रव्यतारतम्यम् । जातिभेदः-- जातितारतम्यमित्यर्थः । तथा च विष्णुः--

"शतनाशे षट्चत्वारिंशद्दिवसप्रतीक्षणम् ।
द्विशतनाशे त्रिसप्ताहप्रतीक्षणम् ॥
पञ्चशतनाशे द्विसप्ताहप्रतीक्षणम् ।
सहस्रनाशे सप्ताहप्रतीक्षणम्" ॥

इति ।

अत्र पणविवेकः.

 अथ शतादिसङ्ख्यासङ्ख्येयत्वं ताम्रिकपणानामित्याह भारुचिः । सुवर्णमाषाणामित्याह वरदराजः । दण्डविधाने 'सहस्रं ब्राह्मणो दण्ड्यः' इत्यादौ सहस्रसङ्ख्यासङ्ख्येयत्वं ताम्रिकपणानामित्याह विज्ञानयोगी । भारुचिस्तु-- सहस्रसङ्ख्यासङ्ख्येयत्वं सुवर्णमाषाणामित्याह । अत्र देशतो व्यवस्था ।

कूटसाक्षिदण्डविवेकः.

कौटसाक्ष्यं तु कुर्वाणान् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥

इति । एतच्चाभ्यासविषयं । कुर्वाणान् इति वर्तमाननिर्देशात् । क्षत्रियादीन् त्रीन् वर्णान् दण्डयित्वा प्रवासयेत्-- मारयेत् ।प्रवासशब्दस्यार्थशास्त्रे मारणे प्रयोगात् । अस्य काण्डस्यार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनं ओष्ठच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसाक्ष्यविषयानुसारेण द्रष्टव्यं । ब्राह्मणं तु दण्डयित्वा विवासयेत्-- स्वराष्ट्रान्निर्वासयेत् ।