पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८२

पुटमेतत् सुपुष्टितम्
151
व्यवहारकाण्डः

 यद्वा विवासनं-- वाससो राहित्यं नग्नीकरणमित्यर्थः । अथ वा वसत्यस्मिन्निति वासो-- गृहं; विवासयेत्-- भग्नगृहं कुर्यादिति यावत् । ब्राह्मणस्यापि लोभादिविशेषापरिज्ञाने अनभ्यासे च तत्र तत्रोक्तार्थदण्ड एव । अभ्यासे त्वर्थदण्डो विवासनं च । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यं, अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नग्नीकरणं गृहभङ्गोऽङ्कनं विवासनं दण्डाभावो वा प्रसज्येरन् ।

महत्यपराधे ब्राह्मणस्यापि धनदण्डश्शारीरदण्डश्चास्ति.

चतुणार्मपि वर्णानां प्रायश्चित्तमकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥

इति स्मरणाच्च--

सहस्रं ब्राह्मणो दड्यः गुप्तां विप्रां बलाद्व्रजन् ।

इति स्मरणाच्च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृहभङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञाने अनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अभ्यासे सर्वेषां नग्नीकरणं गृहभङ्गः देशान्निर्वासनं धनदण्डश्च मिळिताश्च । यदप्युक्तं मनुना--

राष्ट्रादेनं बहिष्कुर्यात् समग्रधनमक्षतम् ।

इति । तत्प्रकृतसाहसविषयं । न सर्वसाहसविषयं ।

शारीरदण्डो ब्राह्मणस्य न कदाचिद्भवति ।
न जातु ब्राह्मणं हन्यात्सर्वपापेष्ववस्थितम् ॥