पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८५

पुटमेतत् सुपुष्टितम्
154
श्रीसरस्वतीविलासे

[१]त्वसम्भवेन विरोधाभावान्न बलाबलचिन्ताऽवतरति । तथाहि--

शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।

इत्युपक्रम्य--

आत्मना स्वपरित्राणे दक्षिणानां च सङ्गरे ।
स्त्रीवित्तादिविपत्तौ च घ्नन् धर्मेण न दूष्यते ॥

इत्यात्मनो रक्षणे दक्षिणादीनां यज्ञोपकरणानां च युद्धे च स्त्रीब्राह्मणहिंसायां च आततायिनमकूटशास्त्रेण घ्नन् न दण्डभागित्युक्त्वा तस्य अर्थवादार्थमिदमुच्यते-- 'गुरुं वा बालवृद्धौ वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्याततायिनो हन्यात्किमुतान्यानिति वाशब्दग्रहणात् 'अपि वेदान्तपारगम्, इत्यत्राप्यपिशब्दश्रवणान्न गुर्वादीनां वध्यत्वप्रतीतिः । तथा च सुमन्तुः--

महत्यपराधेऽपि ब्राह्मणस्य शरीरदण्डाभावः ।

आततायिवधे न दोषोऽन्यत्र गोब्राह्मणेभ्यः ।

इति । यत्तु भवदेवेनोक्तं-- आततायिवधे दोषो नेत्यन्वयः । गोशब्देन गोः शृङ्गस्थानं ब्राह्मणशब्देन ब्राह्मणरूपवेदवाक्यमित्युक्तं, तत्तु सकलस्मृतिविरोधात्क्लिष्टकल्पनया हेयम् । यत्त्वपरार्केणोक्तं--

उद्यतासिं च विषदं शापोद्यतकरं तथा ॥

इत्याततायिलक्षणे उद्यतासि [२]शापोद्यतकरपदद्वयसामर्थ्याद्वधे व्याप्रियमाणा ब्राह्मणा अप्याततायिनो वध्या इति तत्सकलविद्वदसम्मतत्वाद्धेयम् ।



  1. त्वासम्भवेन
  2. चापोद्यत.