पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१८८

पुटमेतत् सुपुष्टितम्
157
व्यवहारकाण्डः

निति स्वकुल इति शेषः । [१]अयं च शूद्रप्रश्ने विधिरनापदि हीनवृत्त्युपजीविनां द्विजानामपि भवति, तेषामल्पशपथेन नियन्तुमशक्यत्वात् । अत एव मनुः--

[२]येऽनुपाताः स्वकर्मभ्यः परपिण्डोपजीविनः ।
द्विजत्वमभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥

साक्ष्ये इति शेषः । तत्र कात्यायनः--

सभान्तस्स्थैस्तु वक्तव्यं साक्ष्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्वयं धर्मोऽन्यत्र स्यात् स्थावरेषु तु ॥

अन्यत्र [३]स्थावरेऽपीत्यर्थः ।

वधे चेत्प्राणिनां साक्ष्यं वादयेच्छवसन्निधौ ।
तदभावे तु चिह्नस्य नान्यथैव प्रवादयेत् ॥

चिह्नस्य शृङ्गादेः ।

साक्ष्यवादप्रकारः.

साक्ष्यवादप्रकारमाह बृहस्पतिः--

विहायोपानदुष्णीषं दक्षिणं बाहुमुद्धरेत् ।
हिरण्यगोशकृद्दर्भान् समादाय ऋतं वदेत् ॥

दक्षिणं पाणिमुद्धरेत् प्रावृतं वस्त्रं यज्ञोपवीतवत्कुर्यादित्यर्थः ।

तथाच श्रुतिः--

'दक्षिणं बाहुमुद्धरते वधत्ते सव्यमिति यज्ञोपवीतम्' ।

इति । तथाच वसिष्ठः--

प्राङ्मुखो यस्स्थितस्साक्षी शपथैश्शापितस्स्वकैः ।
हिरण्यगेशकृद्दर्भानुपस्पृश्य वदेदृतम् ॥



  1. एवं च
  2. येनुत्पाताः.
  3. स्थावरस्योपरीत्यर्थः.