मन्यमानं प्रत्यर्थिनं स्वयं चार्थी आसेधयेत् । राजाज्ञया व्यवहारदर्शनपर्यन्तं निरोधयेत् इति स्वरूपासेधनमुक्तं; तत्तु प्रत्यर्थिगृहीतप्रत्यर्पणीयद्रव्यद्वारा स एवासेध्यत इति स्वरूपासेधमात्रपरं वेदितव्यं । भारुचिस्तु--
वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।
असेधयेद्विवादार्थी वादी तत्प्रतिवादिनम् ॥
सिषाधयिषितार्थविषये आसेधयेत्-- तद्गृहीतं स्वं सिषाधयिषितार्थं राजाज्ञयाऽवरोधयेत् । तदभावे [१]तद्ग्रहीतारं तन्नाशकं वाऽ[२]वरोधयेत् । इति मुख्यवृत्त्या द्रव्यासेधपरमिदं वचनमित्याह । अतो भारुचिव्याख्यानमेव सम्यक् । विष्णुवचनानुरोधित्वात् । नन्वेवमयुक्तं विष्णुवचनानुरोधाभावात् । तथा च विष्णुः--
'आसेद्धुः फलमेवासेध्या' इति, मैवं । भवता वैष्णववचनतात्पर्यापरिज्ञानात् । तत्तात्पर्यं तु लिखितासेधात्फलासेधनं बलवत् । सर्वेषां फलार्थमेव प्रवृत्तेः । फलासेधाकरणे तत्पूर्वकृता लिखिता[३]द्यासेधा अप्रयोजका एवेति तत्प्राबल्यज्ञापनार्थत्वात्त[४]द्वचनस्य इति । तथाच गौतमसूत्रं--
'फलासेधःकौत्तिकवत्' इति ।
तस्यार्थो विवृतो निबन्धकारेण-- अत्र द्वितीयार्थे वतिः कौत्तिकः-- कुत्ताजीविकः, यथा आसेधविषयः । एवं सर्वत्र फलमेवासेधविषय इति । यथा कौत्तिकः कुत्ताकारेण गृहीतपारिभाषिकार्थातिरिक्तोपचितद्रव्यस्वीकारदशायामासेध्यः ।