पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९३

पुटमेतत् सुपुष्टितम्
162
श्रीसरस्वतीविलासे

एवं सर्वेषु व्यवहारेषु फलस्वीकारदशायामासेधः कर्तव्य इति । फलस्वीकारदशायां फलमेवासेध्यं न स्वरूपमिति तात्पर्यम् । कौत्तिकग्रहणं तु कुत्ताविषये इतरव्यवहारवत् पूर्वकालासेधा न सन्ति । किन्तु कुत्तायां फलमेवासेधविषय इति तावन्मात्रविशेषज्ञापनार्थमित्यवगन्तव्यम् ।

आसेधाक्रोशबलाबलम्

 नन्वसिधो नाम फलस्यावरोधः । मध्यस्थजनगोचरे विवादास्पदीभूतद्रव्यनिधापनमिति यावत् । फलानुत्पत्तौ तत्स्वीकारोद्योगोपरोधः । फलनाशकरणोद्योगे स्वरूपासेधो राजाज्ञया निरोधनं-- आसेधः । आक्रोशस्तु; तादृशी न भवति । किन्तु-- फलं न भोक्तव्यं । पत्रं न लेखनीयं । साक्षिभिर्न भवितव्यं । मया सार्धं न्यायनिर्णयायागन्तव्यं । अन्यथा राजाज्ञामुल्लङ्घितवानित्याद्याकारकवाग्व्यापाररूपो न कायिकव्यवहाररूपः । अतश्च सेधादाक्रोशो दुर्बल एव । तत आसेध एव व्यवहारबीजं नाक्रोश इति चेत्, मैवं, आक्रोशासेधयोः विषयभेदो न स्वरूपभेदः । दुर्बलेनार्थिना कृतोपरोध आक्रोशपदालभिप्यः । बलवता तु कृत आसेधपदाभिधेय इति । तथाच विष्णुः--

दुर्बलप्रबलकृतवाक्रोशासेधौ[१]

इति । अयमर्थः--

 'दुर्बलस्य बलं राजा' इति राजपुरुषैर्दुर्बलेनापि कारित आसेध आक्रोशमूलोऽपि प्रबलकृतत्वादासेध एवेति । [२]दुर्बलेनैवाक्रोश इति लक्षणं सुष्टु, [३]परत्रासेधादाक्रोशस्येयान्विशेषः-- आक्रोशः कालान्तरे धर्मनिर्णयानन्तरं फलगतमपि स्वत्वमाकर्ष



  1. द्याकाराकारित B.
  2. दुर्बलेनैवकृताकोश B.
  3. परस्त्वासे B.