पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९६

पुटमेतत् सुपुष्टितम्
165
व्यवहारकाण्डः

हेतुमानसिकक्रियैवेति स्यात्तदाऽयं दोषः प्रादुष्यात्, न च तथा, स्वत्वापायहेतुः क्वचित्सङ्कल्पः क्वचिन्महापातकादिरित्युक्तम् । अतश्च तस्याप्यधिकरणस्य लौकिकव्यवहारानुरोधितया स्वत्वस्यापि लौकिकत्वाच्च । यथा लोके दृष्टं तथा स्वीकर्तव्यम् । कुत्तादिव्यवहारे मनासिकी क्रियैव स्वत्वहेतुरिति संमतं लौकिकानाम् । तथा च दृश्यते-- बहुशो बहवः कायस्थाः क्षेत्रादिकं देशग्रामादिकं वा कुत्ताकारेण गृह्णन्तः पाक्षिकापचयभारसहिष्णवो दृश्यन्ते । तत्र ग्रामादिक्षेत्रादिदेशाद्युपचितपारिभाषिकद्रव्ये तेषां व्यवहाराणां स्वाम्यं विद्यत एव । स चाऽगमस्साधीयानेव । ननु कुत्ताकारेण गृहीतद्रव्ये उपचयो विद्यते चेत्तमुपचयं कुत्ताप्रदातार उत्तमपदाभिलप्यास्स्वीकुर्वन्ति परिदृश्यन्ते च, मैवं, यदि कौत्तिकस्त्वपचयभारसहिष्णुर्न भवे[१]त्तदाऽप्युत्तमस्याप्युपचयापायसहिष्णुत्वं न स्यात् । कौत्तिकत्वप्रसिद्धिर्यास(दुग्ध)वरुद्धभोगपदानान्यथाकरणमूला । अत एवोक्तं विष्णुना--

 कौत्तिकोऽपचयभारसहिष्णुरुत्तमस्तूपचयापायसहिष्णुरिति । अत्र भारुचिः--

 कुत्तोपजीवी-- कौत्तिकः । कुत्ताप्रदातोत्तमः । कुत्तानाम--गृहक्षेत्रारामग्रामदेशादिपदार्थसमृद्धफलप्राप्त्यर्थं यस्मैकस्मैचिद्व्यवहारिणे तद्गृहादिपदार्थजातसन्दानमिति । सन्दानं नाम-- सम्यग्दानं न भवति, औपाधिकदानरूपत्वात् कुत्तायाः, अपि तु सन्दानं-- बन्धनं । उत्तमस्याप्युपचयानङ्गीकारेण कौत्तिक एव बन्धनरूपत्वात् सन्दानं । कुत्तेत्युपचर्यते । संदानं नाम-- त्यागमात्रमिति केचित्, अत्राऽयं विशेषः- यद्यनयोः कौत्तिकोत्तमयोः



  1. तदाऽत्यन्तमस्याप्यु.