पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/१९९

पुटमेतत् सुपुष्टितम्
168
श्रीसरस्वतीविलासे

अष्टमं फालमित्युक्तं नवमं धर्मजं स्मृतम् ।
दिव्यान्येतानि सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥

इति । नन्वल्पाभियोगेऽपि कोशोऽस्त्येव। 'कोशमल्पेऽपि दापयेत्' इति स्मरणात्, सत्यं, कोशस्य तुलादिषु पाठो न महाभियोगेष्वेवेति नियमार्थः, किन्तु सावष्टम्भाभियोगेषु प्राप्त्यर्थः, अन्यथा शङ्काभियोग एव स्यात् ॥

अवष्टभ्भाभियुक्तानां घटादीनि विनिर्दिशेत् ।
तण्डुलाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥

इति स्मरणात् । शङ्कास्विति विश्वासादीनामुपलक्षणार्थं । यथाऽऽह कात्यायनः--

शङ्काविश्वाससन्धाने विभागे रिक्थिनां तथा ।
क्रियासमूहकर्त्रृत्वे कोशमेव प्रदापयेत् ॥

इति । अत्र कोशश्शिरोरहितः--

शिरस्थायिविहीनानि दिव्यानि परिवर्जयेत् ।
घटादीनि विषान्तानि कोश एकोऽशिखस्स्मृतः ॥

इति । शङ्काभियोगादिविषय इति शेषः--

 महातत्वाभियोगे तु कोशोऽपि शिरस्स्थायिविहीनो वर्ज्यः 'शीर्षकस्थेऽभियोक्तरि' इति पञ्चदिव्यशेषतया याज्ञवल्क्ये नोक्तत्वात् । महाभियोगेष्वपि राजप्राड्विवाकसभाव्यतिरिक्त सभायां घटादिदिव्यपञ्चके न शिरःकल्पनमस्ति ॥

वाग्दण्डो धिग्दमश्चैव विप्रायत्तावुभौ स्मृतौ ।
अर्थदण्डवधावुक्तौ राजायत्तावुभावपि ॥

राजप्राड्विवाकसभायामेव दण्डस्य व्यवहारशिरस्थानीयस्योक्तत्वात् । ततश्च--