पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०३

पुटमेतत् सुपुष्टितम्
172
श्रीसरस्वतीविलासे

इति । अत्र विशेषमाह याज्ञवल्क्यः--

तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर्जलं वा शूद्रस्य यवास्सप्त विषस्य वा ॥

स्त्री इति स्त्रीमात्रं; जातिवयोऽवस्थाविशेषानादरेण--

 बाल आषोडशाद्वर्षात् । तथा वृद्धः-- आशीतिकापरः । एतच्च सव्रतानां अत्यन्तार्तानां स्त्र्यादीनां वेदितव्यं । यथा पितामहः--

स व्रतानां भृशार्तानां याचितानां तपस्विनां ।
स्त्रीणां च न भवेद्दिव्यं यदि[१] धर्मानपेक्षते ।

इति ।

स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
घटकोशादिभिस्तासामन्तस्तत्वं विचारयेत् ।

इति विषसलिलव्यतिरिक्तघटकोशादिभिश्शुद्धिविधानात् । स्त्रीणामिति बालानामुपलक्षणं । सव्रतानामित्यादिसामान्येनाभिधानात् । ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः--

सर्ववर्णानां कोशाच्छुद्धिः ।

सर्वेषामेव वर्णानां कोशाच्छुद्धिर्विधीयते ।
सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥

इति । तदयमत्र निष्कर्षः-- वर्षास्वग्निरेव सर्वेषां, हेमन्तशिशिरयोस्तु क्षत्रियादित्रयाणामग्निविषयो विकल्पः, ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषं, ग्रीष्मशरदोस्तु सलिलमेव, साधारणे काले बहुदिव्यसमवाये तुलादिनियम इति ।



  1. धर्मस्त्वपेक्षितः.