पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०५

पुटमेतत् सुपुष्टितम्
174
श्रीसरस्वतीविलासे

ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ॥

अत्र सुवर्णानां संख्यां ज्ञात्वा अपहृतद्रव्यस्य सुवर्णात्मकतया सङ्ख्यासंख्येयतां कृत्वेत्यर्थः ।

अशीतेस्तु विनाशे वै दद्यादेव हुताशनम् ।
षष्ट्या नाशे जलं देयं चत्वारिंशति(के)वै घटम् ॥
विंशद्दशविनाशे तु कोशदानं विधीयते ।
पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तण्डुलाः ॥
तदर्धार्धस्य नाशे तु [१]पुत्रदारशिरांशि च ।
तदर्धार्धस्य नाशे तु लौकिक्यश्च क्रियास्स्मृताः ।

अत्र सर्वत्र विनाशशब्देन अपह्नवो लक्ष्यते । तस्यैव प्रमाणप्रस्तावहेतुत्वात् । चशब्देन स्मार्तशपथास्समुच्चिताः । यथाऽऽह हारीतः--

निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
ऊनत्रिके तु पुष्पं स्यात् कोशदानमतः परम् ॥

अत्र निष्कशब्दो लौकिकनिष्कवचन इति चन्द्रिकाकारः; तथैवात्र व्यवहारादिति । अत्र विशेषमाह विष्णुः--

 [२]यथार्हं समयक्रिया । राजद्रोहसाहसेषु यथाकामम् । निक्षेपस्तेयेष्वर्थपरिमा(णं)णात् सर्वेषु अर्थजातेषु मूल्यं कनकं परिकल्पयेत् । तत्र कृष्णलोने दूर्वाकरं शापयेत् । द्विकृष्णलोने तु तिलकरं । त्रिकृष्णलोने रजतकरं । चतुष्कृष्णलोने सुवर्णकरं । पञ्चकृष्णलोने[३] सीरोद्धृतमहीकरं । सुवर्णार्धोने कोशो देयश्शूद्रस्य । ततः परं यथार्हं घटाग्न्यम्बुविषाणामन्यतमं, द्विगुणार्धे यथाऽहिता समयक्रिया वैश्यस्य [४]त्रिगुणार्थे



  1. स्पृशेत्पुत्रादिमस्तकम्.
  2. मुद्रितकोशे यथार्हं अर्थपरिमाणात् इत्यंशो न दृश्यते.
  3. शिरोधृतमही.
  4. त्रिगुणे.