पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२०६

पुटमेतत् सुपुष्टितम्
175
व्यवहारकाण्डः

राजन्यस्य । चतुर्गु(णे)णार्थे ब्राह्मणस्य । प्राग्दृष्टदोषब्राह्मणं दिव्यानामन्यतममेव स्वल्पेऽप्यर्थेऽपि दाप(कार)येत् । सुविदितसच्चरित्रं न महत्यर्थेऽपि इति । एतद्विष्णुवचनं कृत्स्नशः सर्वस्मृत्यनुरोधेन व्याख्यास्यते । समयक्रिया-- लौकिकक्रिया । सीरोद्धृतमहीकरं-- लाङ्गलोद्धृतलोष्टकरमित्यर्थः । अत्र ऊनग्रहणमधिके शापनिवृत्त्यर्थं । अत्र विशेषमाह मनुः--

एषा सङ्ख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु सर्ववर्णेष्ययं विधिः ॥

इति । एषां सङ्ख्याकृष्णलं तु व्यावहारिकनिष्कस्य विंशतितमो भागः, मतान्तरे तु पञ्चकृष्णलाः पलं, तत्र लौकिकव्यवहारे मानचतुष्टयं कृष्णलमित्युच्यते, तण्डुलपरिमितमानमिति प्रसिद्धम् । मानवयाज्ञवल्क्ययोश्शास्त्रयोः काकणिकद्वयन्यूनमानसप्तकं कृष्णलमित्युच्यते । वैष्णवे धर्मशास्त्रे काकणिकत्रयन्यूनं मानवकृष्णलमित्युच्यते । एवं त्रिविधेषु कृष्णलेषु सत्सु वैष्णवधर्मशास्त्रोक्तकृष्णलमेवाश्रयितुमुचितमिति । काकिणिकत्रयं न्यूनमानषट्कं कृष्णलमेवात्र स्वत आश्रियते, मानवकृष्णलं तु कर्तृगुणादिभिराश्रियते । तत्र यावताऽपहृतद्रव्येण कृष्णलपूर्तिः । तत्कृष्णलापहारे उपोषितस्स्नात आर्द्रपटः शूद्रो देवब्राह्मणसन्निधौ दूर्वाकरश्शपथं कुर्यात् । एवंभूतं द्वितीयकृष्णलादारभ्य आतृतीयकृष्णलाच्छूद्रः तिलकरः शपथं कुर्यात् तृतीयकृष्णलादारभ्य आचतुर्थाद्रजतपाणिः शपथं कुर्यात् । कृष्णलचतुष्टयादारभ्यापञ्चमाच्छूद्रो हिरण्यपाणिः शपथं कुर्यात् । कृष्णलपञ्चकादारभ्याषष्ठाच्छूद्रो लाङ्गलोद्धृतलोष्टकरः शपथं कुर्यात् ।