पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१०

पुटमेतत् सुपुष्टितम्
179
व्यवहारकाण्डः

इति इहापि कात्यायनवृद्धमनुवचनगतशतादिसंख्यानां संख्येयत्वेन पणा एव गृह्यन्ते । एवंच बृहस्पतिवचनगतसहस्रसङ्ख्यादीनां संख्येयतया तण्डुलतुलितमानसुवर्णे गृहीते "मानस्तण्डुलमात्रं स्यात् दशमानः पणः स्मृत" इत्यादिवचनदर्शनाच्छतसहस्रयोरविरोधः । यदपि याज्ञवल्क्यवचनम्--

नासहस्राद्धरेत्फालं न विषं न तुलां तथा ।

अत्र सहस्रशब्दः पादोनार्धोनयोरुपलक्षणार्थ इति न विरोधः । तत्र फालशब्दः परशुपरः । मुख्यफालशब्दस्याल्पार्थविषयत्वस्य दर्शितत्वात् । यत्त्वत्र वृद्धमनुनोक्तं--

अशीतेस्तु विनाशे तु हुतभुक्प्रत्ययस्स्मृतः ।

यच्च कात्यायनेनोक्तं--

शते विषं तु पादोने हुतभुक्तत्र दीयते ॥
आपस्त्रिभागहीने तु शतार्धे तु तुला स्मृता ।

इति । एताभ्यां वचनाभ्यां एवं प्रतीयते-- पञ्चसप्तत्या आरभ्य अशीतेरर्वागग्निः उदकं च प्राप्तं; एवं षष्ट्या आरभ्य सप्तषष्टिप्रदेशादर्वाक् जलघटप्राप्तौ पुत्रसहितोत्कृष्टस्य पुरुषस्य लघुप्रत्ययो भवति । अपुत्रस्य गुरुप्रत्ययो भवतीति व्यवस्थामाह वरदराजः ।

तदर्धे तण्डुला देयास्तदर्धे तप्तमाषकम् ।

इति अल्पविषये तप्तमाषविधानं चौर्यादिशङ्काविषयमित्यविरोधः

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्प्य(ल्पयेत्) ते ।
स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥

इति कात्यायनवचनात् । एवमत्र सिद्धान्तितार्थस्य च विरुद्धार्थप्रतिपादकानि स्मृतिवचनानि सन्ति; तेषामेव व्यवस्थां