पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२१४

पुटमेतत् सुपुष्टितम्
183
व्यवहारकाण्डः

निर्गुणस्य शोद्ध्यत्वेऽस्य दशमाषात्मकस्य पणसख्येयत्वमिति व्यवस्था । अभिशापव्यवस्थया दिव्यव्यवस्थामाह कात्यायनः--

अपराधविशेषेण दिव्यस्थानानि.

इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारि प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ॥

अन्येषु कार्येषु-- स्वल्पकार्येषु-- अधिककार्येष्वप्युत्तमानां सत्यादिपुष्पान्ताश्शपथा एव । दिव्यं देयमिति दिव्यग्रहणाद्घटादिविषान्तान्यवगन्तव्यानि । इन्द्रस्थानमिति प्रख्यातदेवतायतनमुपलक्षयति । यथाऽऽह नारदः--

सभाराजकुलद्वारदेवताचत्वरा इति ।

इमानि दिव्यानि जनसमक्षमेव देयानि । यथाऽऽह पितामहः--

प्रत्यक्षं दापयेद्दिव्यं राजा वाऽधिकृतोऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥

प्रकृतयः-- प्रजाः । अधिकृतः-- प्राड्विवाकः । प्रतिगतमक्षं-- प्रत्यक्षम् । अत्र विशेषमाह हारीतः--

धने प्रमुषिते चोरैः प्रहृतेऽपि धनी स्वयम् ।
परिमाणं स्वरूपं च शपथेन विशोधयेत् ॥

चोरैरपहृते द्रव्ये तद्द्रव्ये गुरुपरिमाणं (स्वरूपंच) वाऽल्पपरिमाणं वाऽनादृत्य शपथेनैव दण्डपाशिकानां द्रव्यपरिमाणं च द्रव्यवान् साधयेदित्यर्थः ।

इति सर्वदिव्योपयोगिनी मातृका समाप्ता ।