पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२०

पुटमेतत् सुपुष्टितम्
189
व्यवहारकाण्डः

अर्चयेत्तु धटं पूर्वं तथा शिष्टांश्च पूजयेत् ॥

इति । इन्द्रादीनां रक्तैरन्यैर्वा पूजनं; विशेषादर्शनात् । एतत्सर्वं पूर्वाह्णे कार्यम्--

पूर्वाह्णे सर्वदिव्यानां प्रदानमनुकीर्तितम् ।

इति नारदवचनात् । एतच्च प्राड्विवाकः कुर्यादित्याह प्रजापतिः--

प्राड्विवाकस्ततो विप्रो वेदवेदान्तपारगः ।
श्रुतवृत्तोपपन्नश्च शान्तचित्तो विमत्सरः ॥
सत्यसन्धश्शुचिर्दक्षः सर्वप्राणिहिते रतः ।
उपोषितश्शुद्धवासाः कृतदन्तानुधावनः ॥
सर्वासां देवतानां च पूजां कुर्याद्यथाविधि ।
चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर्होमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहाऽन्तेनैव भावयेत् ।

इति । होमप्रकारो विज्ञानयोगिनोक्तः--

 ऋत्विग्भिश्चतुर्भिः चतुर्दिक्षु लौकिकाग्नौ प्रणवादिकां गायत्रीमुच्चार्य पुनस्स्वाहाकारान्तं प्रणवमुच्चार्य समिदाज्यचरून् प्रत्येकमष्टोत्तरशतं जुहुयादिति ।

यं चार्थमभियुक्तस्स्याल्लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत्कार्यं तु शिरोगतम् ॥

इति । एवं होमान्तां देवपूजां विधायानन्तरं अभियुक्तमर्थं मन्त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्यशिरोगतं कुर्यादित्यर्थः ॥