मन्त्रस्तु--
आदित्यचन्द्रावनलोऽनिलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्मश्च जानाति नरस्य वृत्तम् ॥
इति । यत्तु प्रजापतिनोक्तं-
इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च दिव्यानां तथैव परिकल्पयेत् ॥
इति । अस्यार्थः-- धर्मावाहनादि शिरसि पत्रारोपणान्तमनुष्ठानकाण्डं सर्वदिव्यसाधारणमुक्तमिति मन्तव्यम् । अनन्तरं प्राड्विवाको धटमामन्त्र्य तं शोध्यं पुनरारोपयेत् ॥
समयैः परिगृह्याथ पुनरारोपयेन्नरम् ।
निवाते वृष्टिरहिते शिरस्यारोप्य पत्रकम् ॥
समयाः-- शपथाः । शपथाश्च तेनैव दर्शिताः--
ब्रह्मघ्नो यस्य लोका ये ये लोकाः कूटसाक्षिणाम् ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥
इति । पुनरारोपणानन्तरं नारदः--
तस्मिन्नेव कृते लक्ष्ये लक्ष्यं कृत्वा द्विजो वदेत् ।
त्वं धट ब्रह्मणा दिष्टः परीक्षार्थं दुरात्मनाम् ॥
धकाराद्धर्ममूर्तिस्त्वं टकारात्कुटिलं नरम् ।
धृतो भावयसे यस्मात् धटस्तेनाभिधीयसे ॥
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।
त्वमेव देव जानीषे न विदुर्यानि मानुषाः ॥