पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२२४

पुटमेतत् सुपुष्टितम्
193
व्यवहारकाण्डः

धटसंरक्षणप्रकारः

धटसंरक्षणप्रकारमाह पितामहः--

विशालामुच्छ्रितां शुभ्रां धटशालां तु कारयेत् ।
यत्रस्थो नोपहन्येत श्वभिश्चण्डालवायसैः ॥
तत्रैव लोकपालादीन् सर्वदिक्षु निवेशयेत् ।
त्रिसन्ध्यं पूजयेच्चैनां गन्धमाल्यानुलेपनैः ॥
कवाटबीजसंयुक्तां परिचारकरक्षिताम् ।
मृत्पानीयाग्निसंयुक्तामशून्यां कारयेन्नृपः ॥

इति । बीजानि यवव्रीह्यादीनि । विज्ञानयोगी तु-- यदा तूक्तलक्षणं धटं तथैव स्थापयितुमिच्छति तदा श्ववायसाद्युपघातनिरासार्थं कवाटादिसहितां शालां कुर्यादिति । इति धटविधिः ।

अथाग्निविधिः

अथाग्निविधिरुच्यते--

अग्नेर्विधिं प्रवक्ष्यामि यथाशास्त्रप्रचोदितम् ।
कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमं तथा ॥
आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥
पञ्चमं त्वैन्द्रदैवत्यं मण्डलं तूच्यते बुधैः ।
कौबेरमुच्यते षष्ठं सप्तमं सोमदैवतम् ॥
आदित्यमष्टमं चैव नवमं सर्वदैवतम् ।
एतानि मण्डलान्यष्टाविति शास्त्रविदो विदुः ॥

एतानि नव मण्डलानि प्रख्यातदेवतायननादिविहितदेशे प्रागपवर्गाणि गोमयेन कार्याणि । अत्र हारीतः---

 S. VILASA
25