पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२३४

पुटमेतत् सुपुष्टितम्
203
व्यवहारकाण्डः

 विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥

इति । अत्र पितामहः--

 गन्तुश्चापि च कर्तुश्च समं गमनमज्जनम् ।
 गच्छेत्तोरणमूलं तु लक्ष्यस्थानाज्जयी नरः ॥
 अस्मिन् गते द्वितीयोऽपि वेगादादाय सायकम् ।
 गच्छेत्तोरणमूलं तु ततस्स पुरुषो गतः ॥
 आगतस्तु शरग्राही न पश्यति यदा जले ।
 अन्तर्जलगतं सम्यक् तदाशुद्धिं विनिर्दिशेत् ॥
 अन्यथा न विशुद्धस्स्यादेकाङ्गस्यापि दर्शने ।
 स्थानाच्चान्यत्र गमनाद्यस्मिन् पूर्वे निवेशितः ॥

एकाङ्गस्यापीति कर्णाद्यभिप्रायम् ।

 शिरोमात्रं तु दृश्येत न कर्णौ न च नासिका ।
 अप्सु प्रवेशने यस्य शुद्धं तमभिनिर्दिशेत् ॥

इति विशेषाभिधानात् । अत्र जयस्वरूपनिर्धारणमाह नारदः--

 पञ्चाशतो [१]यावकानां यौ स्यातामधिकौ जले ।
 तौ तत्र विनियोक्तव्यौ शरानयनकर्मणि ॥

तत्राऽयं प्रयोगक्रमः-- प्राड्विवाको जलाशयसन्निधौ तोरणं विधाय उक्तप्रमाणदेशं लक्ष्यं निधाय तोरणसन्निधौ धनुश्शरान् संपूज्य जलाशये वरुणमावाह्य पूजयित्वा तत्तीरे धर्मादिदेवानां आवाहनाद्युपचारैरिष्ट्वा शोध्यशिरसि प्रतिज्ञापत्रमाबध्य प्राड्विवाक एव "तोयत्वं प्राणिनः प्राण" इत्यादि मन्त्रेण जलमभिमन्त्र्य सत्येनेत्यादिमन्त्रेण शोध्यकर्तृकजलाभिमन्त्रणानन्तरं

  1. धावनानां.