अत्र निष्कर्षः-- उग्रदेवाभिषेकजलं प्राड्विवाको जलदिव्यप्रकरणोक्तेन 'तोय त्वं प्राणिनां प्राणः' इत्यनेन मन्त्रेणाभिमन्त्र्य अभिमन्त्रणानन्तरं शोध्येन 'सत्येन माऽभिरक्ष त्वं वरुण' इत्यभिमन्त्रितं प्रसृतित्रयं पाययेत् । संश्राव्येत्युभयामन्त्रणमुच्यते । अत एव नारदः--
आदित्याभिमुखं कृत्वा तोयं संश्राव्य पाययेत् ।
याज्ञवल्क्योऽपि-
संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ।
इति । किं सश्राव्येत्यपेक्षिते । नारदः--
एनश्च श्रावयेत्पातुः पाययेत्प्रसृतित्रयम् ।
इति । एनः-- पापं । तथा च विष्णुः--
[१]विसं(वादे नरो)वदेन्नरो लोभाच्छली भवति दुर्मतिः ।
स्मृत्यन्तरेऽपि--
आत्मनः कामकारेण कोशं पीत्वा विसंवदेत् ।
दरिद्रो व्याधितो मूढः सप्तजन्मनि जायते ॥
इति ।
एवं श्रावयतः शोध्यः श्रुत्वेदं न मया कृतम् ।
इति वदन् भवेत् । तथा च विष्णुः-- उग्रदेवान् समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् । इदं मया न कृतमिति व्याहरेद्देवताभिमुखमिति । एवं कृते पूर्वोक्तकालेषु विकाराभावे शुद्धो भवति । अन्यथा दण्ड इत्यवगन्तव्यम् । इति कोशविधिः ।
- ↑ न संवदेन्नरो लोभात् क्षत्री वीरमित्रोदये पा ॥