पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४३

पुटमेतत् सुपुष्टितम्
212
श्रीसरस्वतीविलासे

अथ तण्डुलविधिः

अत्र बृहस्पतिः--

 सोपवासस्सूर्यग्रहे तण्डुलान्भक्षयेच्छुचिः ।
 शुद्धिस्याच्छुक्लनिष्ठीवे रक्तमिश्रे तु दोषकृत् ॥

अत्र केवलरक्तादपि दोषभाक्त्वं चशब्दार्थः । अत्र दिव्यसाधारणधर्मावाहानादिहोमशिरःपत्रारोपणादिकं कृत्वा आर्द्रवाससः शोध्यस्य तण्डुलभक्षणं कार्यम् । तत्तु चौर्याभियोग एव यथाऽऽह पितामहः--

 तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् ।
 चौर्ये तु तण्डुला देया नान्यस्मिन्निति निश्चयः ॥
 तण्डुलान् क्षाळयेच्छुभ्रान् शालेयान्यस्य कस्यचित् ।
 मृन्मये भाजने कृत्वा आदित्यस्याग्रतश्शुचिः ।
 स्नानोदकेन संमिश्रान् रात्रौ तत्राधिवासयेत् ॥
 प्राङ्मुखं दोषिणं स्नातं शिरोरोपितपत्रकम् ।
 तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः ॥
 पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव यत् ।
 लोहितं यदि दृश्येत हनुस्तालु च शीर्यते ।
 गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥

इति । भक्षयित्वेति स्वार्थे ण्यन्ताद्भक्षिधातोर्हेतुर्माण्णिच् । अन्यथा निर्दिशेदित्यस्य भक्षयित्वेत्यस्य च समानार्थत्वप्रतीतेर्भक्षणं प्राड्विवाकस्यैव स्यान्न शोद्ध्यस्येति हेतुमण्णिजेव सम्यक् । आदित्यस्येति प्रतिमारूपस्यादित्यस्य; रात्रौ तत्राधिवासयेदिति स्वारस्यात् । तत्रत्येत्यादित्यगृहे । शालिव्यतिरिक्ततण्डुलनिषेधस्त्वदृष्टार्थः । अत्र चन्द्रिकाकारः--