पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४६

पुटमेतत् सुपुष्टितम्
215
व्यवहारकाण्डः

काः परीक्षेयुरिति । तप्तमाषोद्धरणे पर्वाङ्गळीपरीक्षणम् । मुद्रिकोद्धरणे तु प्रदेशिनीमात्रपरीक्षणमिति विवेकः । इति तप्तमाषविधिः ।

अथ फालविधिः

अथ फालविधिरुच्यते । अत्र बृहस्पतिः--

 आयसं द्वादशपलं घटितं फालमुच्यते ।
 अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् ॥
 अग्निवर्णं तु तच्चोरो जिह्वया लेलिहेत्सकृत् ।
 अदग्धश्चेच्छुचिर्भूयादन्यथा तु स हीयते ॥

अत्र चोरग्रहणं शोध्योपलक्षणार्थमिति चन्द्रिकाकारः । विज्ञानेश्वरवरदराजप्रभृतयस्तु फालविधिश्चोरस्यैव; न शोध्यमात्रस्येति वदन्ति । अत्र विद्वांसो विदां कुर्वन्तु । तत्रायं प्रयोगक्रमः-- उक्तपरिमाणं फालं दिव्यदेशे प्रतिष्ठिताग्नौ निक्षिप्य धर्मावाहनादि शोध्यशिरसि पत्रारोपणान्तं कृत्वा सर्वदिव्यसाधारणेऽनुष्ठिते सर्वं कुर्यात् । इति फालविधिः ।

अथ धर्मविधिः

अत्र पितामहः--

 अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
 राजतं कारयेद्धर्ममधर्मं सीसकायसम् ॥

सीसकमिश्रमायसमिति केचित् । सीसकं वा आयसं वेत्यपरे ।

 हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ।

हन्तॄणामिति साहसाभियोगेषु । प्रायश्चित्तार्थिनामिति-- पातकाभियोगेषु । पक्षान्तरमाह बृहस्पतिः--