पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४७

पुटमेतत् सुपुष्टितम्
216
श्रीसरस्वतीविलासे

 लिखेद्भूर्जपुटे वाऽपि धर्माधर्मौ सितासितौ ।
 अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैस्समर्चयेत् ॥
 सितपुष्पस्तु धर्मस्स्यादधर्मोऽसितपुष्पधृत् ।
 एवं विधायोपलिप्य पिण्डयोस्तानि धापयेत् ॥
 गोमयेन मृदा वाऽपि पिण्डौ कार्यौ समौ ततः ।
 मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
 उप्तलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ।
 समर्चयेत्ततो देवान् लोकपालांश्च पूर्ववत् ॥
 धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ।
 यदि पापविमुक्तोऽहं धर्मश्चायातु मे करे ॥

इति । अभिशस्तोऽभिमन्त्रयेत् ।

 अभिशस्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ।
 धर्मे गृहीते शुद्धिस्स्यादधर्मे तु स हीयते ।।

इति । प्रजापतिना विशेष उक्तः--

 वस्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
 जपहोमादिकैर्मन्त्रैः गायत्र्या सहितैस्तथा ॥
 आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः ।
 अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥
 समौ कृत्वा तु मृत्पिण्डौ स्थाप्यौ चानुपलक्षितौ ।
 ततः कुम्भात्पिण्डमेकं प्रगृह्णीताविलम्बितः ॥
 धर्मे गृहीते शुद्धिस्स्यात्संपूज्येत परीक्षकैः ।
 अधर्मे तु गृहीते तु दण्ड्यो निर्वास्य एव च ॥

   इति । धर्मविधिः ।