पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२४८

पुटमेतत् सुपुष्टितम्
217
व्यवहारकाण्डः

एतानि दिव्यानि ।

अथ शपथाः

 ते च मन्वादिभिरुक्ता इति पूर्वमेवोक्ताः । तथाऽपि विस्पष्टार्थमुच्यते । यथाऽऽह विष्णुः--

 निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
 त्रिकादर्वाक्च्छिरः पुष्पं कोशदानमतः परम् ॥
 सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
 गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु भेदकैः ॥

इत्यादयः । अत्र शुद्धिविभावना मनुनोक्ता--

 नचार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथैश्शुचिः ।

इति । आर्तिः-- पीडा 'यस्य नो राजदैविकम्' इत्युक्ता । कालनियमश्च त्रिरात्रप्रभृतिकालगौरवलाघवपर्यालोचनया द्रष्टव्यः । यद्यपि शपथानामपि दिव्यशब्दवाच्यत्वमस्ति, तथाऽपि कालान्तरविनिर्णयनिमित्तत्वेन समनन्तरनिमित्तेभ्यो घटादिभ्यो भेदेन व्यपदेशः स्मृतिषु ब्राह्मणपरिव्राजकन्यायेन कृतः । अत्रापि विशेषमाह हारीतः--

 कोशतण्डुलधर्मांस्तु धर्मसंभवमेव च ।
 पुत्रदारादिशपथान् सर्वकालं प्रयोजयेत् ॥

नन्वाक्रोशाभावविशिष्टा लिखितादयः प्रमाणपदवीमवगाहन्त इत्युक्तम् । तन्न सङ्गच्छते । आक्रोशाभावस्य सर्वदा साक्षिसाध्यत्वनिश्चयाभावात् । दिव्येनैव साध्यत्वे तत्र मानुषं प्रमाणं निरवकाशं स्यात्तथाहि-- आक्रोशाभावः साक्षिसाध्यो न भवति । केनचित्कदाचित्कथंचिदपि कृतस्याक्रोशस्य सर्वथा चर्मचक्षुषां दिव्यज्ञानशून्यानां निश्चेतुमशक्यत्वात् । किन्तु

 S.VILASA
28