मध्यस्थेन वा अर्थिना वा अभिहिता; अधर्मणाद्यङ्गीकारायत्तपरिमाणस्यात्रासंभवात् । अन्यस्य पुरुषबुद्धिकल्पितस्य शास्त्रवाह्यस्यायुक्तत्वात् शास्त्रोक्तमेव परिमाणं ग्राह्यमिति तात्पर्यम् । स्मृत्यन्तरे विशेष उक्तः--
प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् ।
याच्यमानमदत्तं च वर्धते पञ्चकं शतम् ॥
इति । अनाकारितवृद्धेरपवादमाह नारदः--
पण्यमाला भृतिर्न्यासो दण्डो यत्र प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥
वृथादानं नटादिभ्यो दत्तम् । आक्षिकपणः-- अक्षसंबन्धिपणः संवर्तोऽपि--
न वृद्धिरस्त्रीधने लाभे निक्षेपे च यथास्थिते ।
संन्दिग्धे प्रातिभाव्ये च यदि न स्यात्स्वयंकृता ॥
स्वयंकृतेति वदन् स्त्रीधनादावपि कृता वृद्धिर्देयेति दर्शयति । निक्षेपे च यथास्थित इति वदन् अयथास्थितत्वे व्यक्त्यन्यत्वादिकरणे वृद्धिर्भवतीति दर्शयति । कात्यायनोऽपि--
चर्मसस्यासवद्यूतपण्यमूल्येषु सर्वदा ।
स्त्रीशुल्के च न वृद्धिस्स्यात्प्रातिभाव्यागतेषु च ॥
अतः सर्वदेति वदन् प्रतियाचनादेर्विद्यमानत्वेऽपि नास्त्यकृता वृद्धिरिति दर्शयति । गौतमेन तु विशेष उक्तः । 'भुक्ताधिर्न वर्धते' इति । भुक्तो वस्त्रालङ्कारादिरिह भुक्ताधिः । याज्ञवल्क्येनापि--
दीयमानं न गृह्णाति प्रयुक्तं यस्स्वकं धनम् ।
मध्यस्थस्थापितं यच्च वर्धते न ततः परम् ॥