इति । वृद्ध्युपरमावधिमाह नारदः--
ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरस्स्मृतः ।
देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते ॥
द्विगुणं त्रिगुणं चैव तथाऽन्यस्मिंश्चतुर्गुणम् ।
तथाऽष्टगुणमन्यस्मिन् देशे देशेऽवतिष्ठते ॥
यद्देयमृणं तद्वर्धमानं क्वचिद्देशे द्विगुणं क्वचित्त्रिगुणं क्वचिच्चतुर्गुणं । प्रयुक्तद्रव्यभेदेन वृद्धिव्यवस्थामाह बृहस्पतिः--
हिरण्ये द्विगुणा वृद्धिस्त्रिगुणा वस्त्रकुप्यके ।
धान्ये चतुर्गुणा प्रोक्ता दश वाह्ये लवेषु च ॥
उक्ता पञ्चगुणा शाके बीजस्था षड्गुणा स्थिता ।
लवणस्नेहमद्येषु वृद्धिरष्टगुणा स्मृता ॥
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिका ।
कुप्यं-- त्रपुसीसकं । शदः-- क्षेत्रोत्थफलम् । यद्यपि धान्यमपि क्षेत्रोत्थफलं; तथाऽपि शदशब्देन क्षेत्रोत्थपुष्पफलादिकमुच्यते गोबलीवर्दन्यायेन । लवो-- मेषलोमचामरादि । शाकवर्त्कार्पासेऽपि षड्गुणैव वृद्धिः । तथा च व्यासः-
शाककार्पासबीजेषु षड्गुणा वृद्धिरिष्यते ।
तैलस्यापि मद्यवदष्टगुणा वृद्धिः । कात्यायनेनापि--
तैलानां चैव सर्वेषां मद्यानामथ सर्पिषाम् ।
वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च ॥
यत्तु । त्रिगुणं धान्यरसादिरिति विष्णुवचनम् । तदुभयसम्मत्या-- देशभेदेन वा व्यवस्थाकल्पनेन धान्यं चतुर्गुणमिति पूर्वोक्तेन न विरुद्धम् । धान्येनैव रसा व्याख्याताः । पुष्पफलानि चेति स्मृत्यन्तरं यत्र देशे त्रिगुणं देयमवतिष्ठते तद्विषयं । दरिद्राधमर्ण