पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६

पुटमेतत् सुपुष्टितम्


उपोद्घातः.


 विदितमेवेदं यदाङ्गलेयराजधान्यां लण्डन्नगर्यां 1881 तमे क्रिस्ताब्दे तूब्नर्ग्रन्थमालायां प्रतापरुद्रमहाराजप्रणीतसरस्वतीविलासान्तर्गतः दायभागात्मकभागः मुद्राप्य प्रख्यापितस्समभवदिति । सम्पूर्णोऽयं ग्रन्थः नाद्याप्युपलब्धो मुद्रितो दृश्यते । सरस्वतीविलासप्रणेता प्रतापरुद्राख्योऽयं महाराजः कदा कुत्र वा राज्यं चकारेत्येतदपि न निरणायि । सम्पूर्णेऽस्मिन् सरस्वतीविलासे किं केवलं व्यवहारपदान्येव जिज्ञासितान्युत वर्णाश्रमाचारप्रायश्चित्तकाण्डावपि विवृतावित्येतदपि नाद्यपि ज्ञातम् । सैषा संशीतिः प्राच्यकोशागारेऽस्मिन् संगृह्य संरक्षितान् सरस्वतीविलासकोशानुपजीव्य मुद्रापितेनानेन सम्पूर्णेन ग्रन्थेन दूरीकृता भवेत् ।

 महानदीस्रोतोवातपूतां कटकनगरीं कपिलेन्द्रो नाम सूर्यवंशजो राजा क्रिस्ताब्दानां पञ्चदशशतकस्यादिभागेऽध्यवसत् । तस्य पुत्रः पुरुषोत्तमो नाम राजा समासीत् । तस्य च पुत्रः श्रीवीररुद्रदेवः वीरप्रतापरुद्रदेव इत्यपि विख्यातो राजाऽभवत् । सोऽयं राजा ग्रन्थस्यास्य प्रणेतेति अवतरणिकायां प्रस्तूयमानो दृश्यते । तथाच काकतीयवंश्यादेकशिलानगराधिपतेः प्रतापरुद्रदेवादन्य एवायं वीररुद्रदेव इति स्पष्टमवगम्यते ।

 धावकः श्रीहर्षनाम्ना रत्नावलीं नागानन्दं चेव कश्चन वीररुद्रदेवसभास्थः पण्डितः सरस्वतीविलासं विरच्य वीररुद्रनाम्ना प्रख्यापितवानुत वीररुद्र एव ग्रन्थमेनं प्रणिनायेत्ययमपरस्सन्देहो जागर्ति । अवतरणिका

xxvii