पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६१

पुटमेतत् सुपुष्टितम्
230
श्रीसरस्वतीविलासे

मित्यादिशब्देन सुवर्णरजतव्यतिरिक्तानां त्रपुसीसादीनां ग्रहणम् । कोशशब्दो धान्यानामुपलक्षकः ॥ कार्पासशब्दग्रहणेन तण्डुलप्रभृतीनामुपलक्षणम् । धान्यस्य त्रिगुणपञ्चगुणयोर्व्यवस्था पूर्वमेवोक्ता । नातिसांवत्सरीमित्यस्यार्थः-- शूद्राधमर्णे प्रतिमासं पञ्चशतं गृह्णीयादिति या वृद्धिः प्रागुक्ता सा ब्राह्मणाधमर्णे कथं चिदङ्गीकारवशात् गृह्यमाणा संवत्सरं यावद्ग्रहीतव्या; न ततः परमिति । अपरे तु-- तद्द्वैगुण्याद्वृद्धिग्रहविधानात् संवत्सरादूर्ध्वमपि वृद्धिग्रहणे दोषाभावात् अभ्युदयार्थी चेत् संवत्सरादूर्ध्वं या वृद्धिस्तां न निर्हरेत्-- न गृह्णीयादिति । अयं प्रकारः चन्द्रिकाकारादीनामभिप्रेतः । आद्यस्तु अपरार्कादीनामभिप्रेतः ॥ यथारुचि स्वीकार्यम् । अत्र विष्णुः--

 स्तेयं ब्रह्मत्वविषये सुवर्णाभरणे तथा ।
 पश्चात्तत्तेन दातव्यं तस्मादेकादशाधिकम् ॥

अयमर्थो ब्राह्मणसंबन्धिसुवर्णव्यतिरिक्तद्रव्यापहारे । क्षत्रियसुवर्णापहारे च । तथाच पितामहः--

 सद्यस्स्याद्द्वादशगुणं चोरितं रत्नहाटकम् ।
 ब्राह्मणस्वं च रूप्यादि सद्योऽप्येकादशाधिकम् ।

कात्यायनः--

 कुप्यं पञ्चगुणं भूमिः तथैवाष्टगुणा मता ।
 सद्य एवेति वचनात् सद्य एव प्रदीयते ॥

इति । बृहस्पतित्तु विशेषमाह--

 शिखावृद्धिं कायिकां च भागलाभं तथैव च ।
 धनी तावत्समादद्याद्यावन्मूलं न शोधितम् ।