पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६२

पुटमेतत् सुपुष्टितम्
231
व्यवहारकाण्डः

 शिखावृद्ध्यादीनां स्वरूपं पूर्वमेवोक्तम् ।

न शोधितं न प्रतिदत्तं ऋणिकेनेत्यर्थः । अत एवाह याज्ञवल्क्यः--

 आधिस्तु भुज्यते तावद्यावन्न प्रतिदीयते ।

इति । अत्र हारीतः--

 बन्धं यथा स्थापितं स्यात्तथैव परिपालयेत् ।
 अन्यथा नश्यते लाभो मूलं वा तद्व्यतिक्रमात् ॥

यथा-- येन प्रकारेण गोप्यत्वेन भोग्यत्वेन वा स्थापितं-- अधमर्णेनाधीकृतं । तथैव-- गोप्यमाधिं गोप्यत्वेनैव भोग्यमाधिं भोग्यत्वेनैव धनी पालयेत् । अन्यथा-- गोप्यं भोग्यत्वेनैव भोग्यं वा गोप्यत्वेनैव पालितं चेत् । समयातिक्रमाल्लाभो नश्यति; मूलं वा द्रव्यं नश्यतीत्यर्थः । तथाच याज्ञवल्क्यः--

 गोप्याधिभोगे नो वृद्धिः ।

इति । भोगे बलादिति शेषः । तथा च मनुः--

 न भोक्तव्यो बलादाधिः भुञ्जानो वृद्धिमृत्सृजेत् ।

इति । अयमर्थः-- भोगप्रतिषेधं कुर्वन्तमाधातारमाक्रम्य गोप्याधिं भुञ्जानस्यात्यन्तापराधित्वात् अल्पभोग एव सर्वनाशकस्स्यादिति । यस्तु बलात्कारेणात्यन्तं भुङ्क्ते तस्य मूलहानिरेवेति । मूलं वेति हारीतवचने विकल्पार्थः । तथा च मनुः--

 यस्स्वामिनाऽननुज्ञातमाधिं भुङ्क्ते विचक्षणः ।
 तेऽनाधिवृद्धिर्भोक्तव्या तस्य भोगस्य निष्कृतिः ॥

भोग्याधौ तु भोग्यत्वेन पालिते लाभस्यैव नाशः । समयातिक्रममात्रेण मूलनाशपक्षानवतारात् । नच भोग्याधौ वृद्ध्यभावाल्लाभनाशपक्षस्याप्यनवतार इति वाच्यं । भोगस्यापि लाभत्वात् ।