पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६३

पुटमेतत् सुपुष्टितम्
232
श्रीसरस्वतीविलासे

अथवा यत्राधाता आदावुपभोगं वृद्धिदानमप्याध्याऽभ्युपगच्छति तत्र प्राप्ता वृद्धिरित्यवगन्त०यं । अत एवाह याज्ञवल्क्यः--

 गोप्याधिभोगे नो वृद्धिस्सोपकारेऽपि हापिते ।
 नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥
 गोप्याधेस्ताम्रकटाहादेरुपभोगे वृद्धिर्न भवति ।

तथा सोपकारे-- उपकारकारिणि बलीवर्दादौ । भोग्याधौ सवृद्धिके हापिते । हानिं-- व्यवहाराक्षमत्वागमिते नो वृद्धिरिति संबन्धः नष्टो-- विकृतिं गतः छिद्रभेदादिना । पूर्ववत्कृत्वा देयः । वृद्धिसद्भावे वृद्धिरपि हातव्या । विनष्टः-- आत्यन्तिकनाशं प्राप्तः । सोऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकमूल्यं लभते यदि तदा मूल्यनाशः--

 विनष्टे मूलनाशस्स्याद्दैवराजकृतादृते ।

इति नारदवचनात् । दैवं-- अग्न्युदकदेशोपप्लवादि । दैवकृताद्राजकृताद्वा विनाशाद्विना स्वापराधकृतात् विनाशे सवृद्धिकं मूल्यं दातव्यम् । अधमर्णेनाध्यन्तरं वा दातव्यम् । यथाऽऽह--

 स्रोतसाऽपहृते क्षेत्रे राज्ञा चैवापहारिते ।
 आधिरन्योऽथ दातव्यो देयं वा धनिनो धनम् ॥

इति । तथाच नारदः--

 यद्याधेर्मूलनाशस्स्याद्दैवराजकृतात्क्वचित् ।
 आध्यर्थस्त्वृणिना देयस्त्वशक्तौ भोगतो भवेत् ॥

इति । प्रतिसंवत्सरं यावान् भोगस्तावान् वृद्धित्वेन दातव्य इत्यर्थः । भारद्वाजस्तु विशेषमाह--

 प्रच्छाद्याधिमृणी कुर्यात् क्रयार्थे बलवच्च यः ।
 दण्डं स त्रिगुणं दत्वा पुनराध्यर्थको भवेत् ॥