स्वधनात्स तु हीनस्स्यात्करोत्यापदि पूर्ववत् ॥
आपदि-- आपत्काले पूर्ववत्-- स्वधनं हीयेतेत्यर्थः । दास्याद्याधौ वेतनं, शकटाद्याधौ नाशकादिकं । न तु दास्याधिकृतावधातादेस्तण्डुलादिकमित्याह कात्यायनः--
अकाममननुज्ञातमाधिं यत्कर्म कारयेत् ।
भोक्ता कर्मफलं दाप्यो वृद्धिं वा लभते न सः ॥
इति । कर्मानुसारेणेति द्रष्टव्यम् । दाप्यो-- बन्धस्वामिने राज्ञेति शेषः ।
यस्त्वाधिकर्म कुर्वाणं वाचा दण्डेन कर्मभिः ।
पीडयेद्भर्त्सयेन्नैव प्राप्नुयात्पूर्वसाहसम् ॥
अत्र कुर्वाणमिति शानचा कुर्वत्याधौ पीडनभर्त्सनकारिणोऽपि-- न डण्ड इति सूचितम्--
बलादकामं यत्राधिमनिसृष्टं प्रवेशयेत् ।
प्राप्नुयात्साहसं पूर्व धाताऽप्याधिमाप्नुयात् ॥
अनिसृष्टं-- अनाहितं । गोप्याधौ बलादल्पस्याप्यनाहितस्य भोगे भोगकर्तुर्दण्डः सर्वमूलनाशस्स्यादिति तात्पर्यार्थः । वञ्चनया तु कृते भोगे भोगानुसारेण मूलनाशः । अन्यथा बलाद्ग्रहणस्यानर्थक्यापत्तिरिति चन्द्रिकाकारः-- आधिसंरक्षणप्रकारमाह-- हारीतः--
बन्धं यथा स्थापितं स्यात्तथैव प्रतिपालयेत् ।
आधिग्रहणादूर्ध्वं अर्थे नाशह्रासविकारासारत्वव्यक्त्यन्तरत्वादयो यथा न भवन्ति तथा प्रत्यर्पणपर्यन्तं धनी यत्नेनाधिं पालयेदित्यर्थः । एवं पाल्यमानेऽप्याधौ दैवादिवशान्नाशो यदि भवेत्