पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२६८

पुटमेतत् सुपुष्टितम्
237
व्यवहारकाण्डः

 येन भुक्तं भवेत्पूर्वं तस्याधिर्बलवत्तरः ॥

भोग्याधौ भोगस्य प्रधानकारणत्वात्प्राथम्यनिबन्धनबलवत्ता युक्तेत्यभिप्रायः । भोगाविशेषे तु--

 यद्येकदिवसे तौ तु भोक्तुकामा (वुपागतौ) पस्थितौ ।
 विभज्याधिं समं तेन भोक्तव्य इति निश्चयः ॥

तेनेत्येकवचनं द्विवचनस्योपलक्षम्, द्वाभ्यामित्यर्थः । यद्वा-- तेनेति तर्हीत्यर्थे निपातः । भोग्यादौ विशेषमाह कात्यायनः--

 आधिमेकं द्वयोर्यत्र कुर्यात्कोऽत्र पतिर्भवेत् ।
 तयोः पूर्वकृतं ग्राह्यं तत्कर्ता चोरदण्डभाक् ॥

पूर्वकृतं-- पूर्वमुपादानादिना सिद्धं । उपादानादौ यौगपद्येऽप्याह बृहस्पतिः--

 तुल्यकालोपस्थितयो द्वयोरपि समं भवेत् ।

उपस्थितयोः-- उपादानादिकं कर्तुमिति शेषः । गोप्याधौ लेख्यमेव प्रबलं प्रमाणमित्याह कात्यायनः--

 आधानं विक्रयो दानं लेख्यसाक्षिकृतं यथा ।
 एकक्रियाविरुद्धं तु लेख्यं तत्रापहारकम् ॥

लेख्यं-- लेख्यकृतं । अपहारकं बलवत् । लेख्यसिद्धत्वाविशेषेऽपि बलाबलविशेषमाह स एव--

 अनिर्दिष्टं च निर्दिष्टमेकत्र च विलेखितम् ।
 विशेषलिखितं ज्याय इति कात्ययनोऽब्रवीत् ॥

अनिर्दिष्टं नामादातुराधिकरणकाले यद्यद्धनं निरूपितस्वरूपं तद्धनं निर्दिष्ठं । तद्वपरीतमनिर्दिष्टमित्युच्यत इति । आधिकरणकाले निर्दिष्टत्वसाम्येऽप्याह ।