पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७

पुटमेतत् सुपुष्टितम्
xxviii

गतराजप्रशस्तिपरिशीलनायां कृतायां राजा नास्य ग्रन्थस्य प्रणेतेति भाति; यतो न कश्चिदप्यत्रावतरणिकायां परिदृश्यमानया विधया स्वप्रशस्तिं कुर्यात् । अतः राजानुग्रहमाकाङ्क्षमाणः कश्चन पण्डितः राज्ञोऽतिशयोक्तिभूयिष्ठां स्तुतिमेनां कुर्वाणो ग्रन्थं व्यरचयदिति वक्तुं शक्यते । सोऽयं पण्डितः व्यवहारकाण्डमीमांसकेभ्यो निबन्धग्रन्थप्रणेतृभ्योऽन्यादृश एवासीदित्यपि ज्ञायते । यतः--

  धर्मेण व्यवहारेण चरित्रेण नृपाज्ञया ।
  चतुष्पाद्व्यवहारोऽयमुत्तरः पूर्वबाधकः ॥

 इति कौटलीयार्थशास्त्रे हारीतस्मृतौ च परिदृश्यमानं श्लोकं व्याकुर्वाणो ग्रन्थप्रणेता व्यवहारपरीक्षणे क्वचित्साक्षिणामनृतवादवशाद्व्यवह्रियमाणविषयस्य नैजात्सत्यस्वरूपात्प्रच्यावनं, क्वचित्साक्षिभिस्सत्ये स्थिरीकृतेऽपि वादिप्रतिवाद्यन्यतमाचारवशात्सत्यत्यागः, क्वचिच्च राजाज्ञावशात्सत्यस्यापि चरित्रस्य त्यागो भवतीति वदन् स्वस्य न्यायविचारपरिश्रमं विलक्षणं द्योतयति । न्यायस्थानेषु हि व्यवह्रियमाणविषयविचारः चिरात् स्थापितं विचारक्रममनुसृत्यैव क्रियमाणः प्रायेण विचारक्रमगतदोषेण दूषितस्सत्याद्बाढं प्रच्यावितो भवतीति विदितमेव ।

 अतश्चायं सरस्वतीविलासनिबन्धः अधुनातनानामपि न्यायधर्मविशारदानामुपकाराय प्रभवतीति वक्तुं शक्यते ।

 "धर्ममात्रं वा विभजेत्" इति । अत्यन्तनिस्वानामिति शेषः ।

 अनेन ज्ञायते परिभाषां विना सङ्कल्पमात्रेणापि विभागसिद्धिः" इति दायभागप्रकरणे ग्रन्थकृता स्पष्टमुक्तः सङ्कल्पमात्रेण विभागः अल्तनेषु न्यायस्थानेषु चिरादनुष्ठितो दृश्यते ।

 किं च स्त्रीणां दायविभागमधिकृत्य त्रयः पक्षा ग्रन्थकृता दर्शिता वर्तन्ते ।