पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७०

पुटमेतत् सुपुष्टितम्
239
व्यवहारकाण्डः

 त्रयोऽपि तद्धनं दर्म्यं विभजेयुर्यथांऽशतः ।
 उभौ क्रियानुसारेण विभागेन प्रतिग्रहः ॥

इति । अत्र क्रयशब्दो धनवचनः; करणव्युत्पत्तेराश्रयणात् । तथा च बृहस्पतिः--

 कृतं चेदेकदिवसे विक्रयाधिप्रतिग्रहम् ।
 त्रयाणामपि सन्देहे कथं तत्र विचारणा ॥
 त्रीण्योव हि प्रमाणानि विभजेयुर्यथांशतः ।
 उभौ चार्थानुसारेण त्रिभागेन प्रतिग्रही ॥

इति । प्रतिग्रह इति पाठे निष्पद्यत इति शेषः ।

 आधिःप्रणश्येद्विगुणे धने यदि न मोक्ष्यते ।
 काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥

अत्राधिप्रणाशो नामाधमर्णसंबन्धं परित्यज्य धनिकसंबन्धापत्तिः । एतदुक्तं भवति-- प्रयुक्ते द्रव्ये स्वकृतया वृद्ध्या कालक्रमेण द्विगुणीभूते यद्याधिरधमर्णेन द्रव्यादानेन न मोक्ष्यते । तदा नश्यति-- अधमर्णस्य स्वं धनप्रयोक्तुः स्वं भवतीति । कालकृतोऽप्येवमेव । कालकृतः-- कृतकालः । आहिताग्न्यादित्पात्पूर्वनिपातः । स तु काले निरूपिते प्राप्ते नश्येत् । द्वैगुण्यात्प्रागूर्ध्वं वा फलभोग्यः-- फलं भोग्यं यस्य स फलभोग्यः । क्षेत्रारामादिः । स कदाचिदपि न नश्यति कृतकालस्याभोग्यस्य तत्कालातिक्रमनाश इत्युक्तः 'काले कालकृतो नश्येत्' इति अकृतकालस्य भोग्यस्य नाशाभाव उक्तः । फलभोग्यो न नश्यतीति पारिशेष्यादाधिःप्रणश्येदित्येतदकृतकालगोप्याधिविषयमवतिष्ठते । द्वैगुण्यादिक्रमेण निरूपितकालातिक्रमेण च विनाशे