पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७१

पुटमेतत् सुपुष्टितम्
240
श्रीसरस्वतीविलासे

चतुर्दशदिनप्रतीक्षणं कर्तव्यं ।

 हिरण्ये द्विगुणीभूते पूर्णे कालकृतावधेः ।
 बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥
 तदन्तरा धनं दत्वा ऋणी बन्धमवाप्नुयात् ।

इति बृहस्पतिवचनाद्धनमत्र सवृद्धिकमूल्यं विवक्षितम् । यथाऽऽह व्यासः--

 गोप्याधिं द्विगुणादूर्ध्वं मोचयेदधमार्णकः ।

इति । द्विगुणादूर्ध्वं-- प्रयुक्तधने शान्तलाभे सतीत्यर्थः । मोचयेत्-- सवृद्धिकमूल्यदानेनेति शेषः । लाभशान्तितः पूर्वकालमध्येऽपि सवृद्धिके धने दत्ते बन्धावाप्तिः दण्डापूपन्यायसिद्धा च ।

 तदन्तरा धनं दत्वा ऋणी बन्धमवाप्नुयायात् ।
 गोप्याधिं द्विगुणादूर्ध्वं मोचयेदधमर्णकः ॥

इति वचनद्वयस्य द्वैगुण्यानन्तरमेवाधिर्भोक्तव्यः मध्ये द्विगुणमेव दातव्यं धनं न तु यथाकालप्राप्तवृद्धियुक्तद्वैगुण्यात्पूर्वं न दातव्यमित्येवं व्याख्यानं न युज्यते चन्द्रिकाकारकुलार्कव्याख्याविरुद्धमिति वाच्यं । भारुचिमतानुसारेण व्याख्यानादिदमेव व्याख्यानं सम्यक् । स्थावरस्याधौ धनद्वैगुण्यं गोप्यस्यापादकम् । उत्तमर्णस्तु गोप्यलाभार्थं धनं प्रयुक्तवान् । न वृद्ध्यर्थं । अतो यदा कदाचिदपि प्रयुक्तद्रव्यदाने द्विगुणमेव धनं दातव्यं । द्विगुणानन्तरमेव परस्वत्वापत्तिर्नास्ति--

 बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ।

इति । धनिनो बन्धकस्वामित्वं चतुर्दशदिनानन्तरमेवेत्यतो न द्वैगुण्यानन्तरं बन्धनस्वामित्वं । अतो द्वैगुण्यात्पूर्वमपि द्विगुणमेव