दातव्यमिति भारुचिमततत्वं । अतश्चन्द्रिकाकारादिमतमसमंजसमिति ध्येयं । फलभोग्याभिमूलमात्रं दत्वा फलकालान्ते वर्तमानमाप्नुयात् ऋणी--
फलभोग्यं पूर्णकालं दत्वा द्रव्यं तु सामकम् ।
इति । सममेव सामकं-- मूलमात्रमिति यावत् । फलकालान्ते-- ज्येष्ठावधौ ।
ज्येष्ठावधिं समासाद्य मोचयेद्भोग्यमाहितम् ।
इति । आहितं-- आधीकृतमित्यर्थः । एतच्च स्थावरविषयं । स्वरूपेण भोग्यवस्त्रादौ न कालव्यवस्था । तत्र बृहस्पतिः--
धनं मूलीकृतं दत्वा यदाऽऽधिं प्रार्थयेदृणी ।
तदैव तस्य मोक्तव्यमन्यथा दोषभाग्धनी ॥
अत्र दोषः-- स्तेयदोषः । देशकालव्यवधानेन धनिकासन्निधौ धनिककुटुम्बेनापि सोऽर्थो मोक्तव्यः ।
प्रयोजके सति धनं मूले न्यस्याधिमाप्नुयात् ।
न्यस्य-- दत्वा । परिभाषिते विशेषमाह बृहस्पतिः--
परिभाष्य यदा क्षेत्रं प्रदद्याद्धनिके ऋणी ।
त्वयैतच्छान्तलाभेऽर्थे मोक्तव्यमिति निश्चितम् ॥
प्रविष्टे सोदये द्रव्ये प्रदातव्यं त्वया मम ।
इति । त्वयैतदित्यादिपरिभाष्य यदा ऋणग्रहणकाले क्षेत्राद्याधिं प्रदद्यात् । प्रागुक्तविधयाऽधिलाभ इत्यर्थः । आधिलाभोऽनयैव परिभाषया लाभशान्तेः पश्चादपि सिध्यतीत्याह याज्ञवल्क्यः--
यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥