पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७४

पुटमेतत् सुपुष्टितम्
243
व्यवहारकाण्डः

युज्यते । विनिमयस्य स्वत्वापादकत्वं 'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इत्यादिवचनस्य नियमपरत्वात्पारिभाषिकक्रयान्त इति भारुच्यपरार्कादीनां मतमिति क्रयान्तो वाचिकदानान्तो वेति । अयमाशयः-- आधिस्थले विनिमय एव न संगच्छते । परिभाषावशात् दीपोत्सवादिसमये एतदृढमहं दास्यामि अन्यथाऽयमाधिस्तव भविष्यतीति तत्र परिभाषयैव धनस्य सोपाधिक्रयद्रव्यतया प्रतीतेः । यद्वा "काले कालकृतो नश्येत्" इत्यत्रापि परिभाषयैवाधिनाशः प्रतीयते । तस्मात्परिभाषा नाम वाचनिकदानमिति दानमेव स्वत्वापादकं । अतो दानान्ततया आधिः स्वत्वापादकः । अनेनैवाभिप्रायेणोक्तं विज्ञानयोगिना-- 'वचनात्स्वत्वम्' इति । वचनं परिभाषा-- वाचनिकदानमिति यावत् । अन्यथा-- क्रयान्तपक्षे स्थावरदृश्याधौ ।

 ज्ञात्याधिप्रत्ययेनैव स्मारकक्रय इष्यते ।

इति वक्ष्यमाणन्यायेन ज्ञात्याध्यासेधा न लगेयुः । न च तथा संभवति । आधिर्नाम बन्धकं । ऋणदाने ग्रहणे वा ऋणं न दातव्यं न ग्रहीतव्यं चेत्येवमासेधस्संभवतीति दृश्याधौ ज्ञात्याध्यासेधा न सन्ति, तेऽपि न लगयुरेवेत्यतो वाचनिकदानपक्ष एव सम्यगिति । अन्वाधिस्वरूपमाह प्रजापतिः--

 धनी धनेन तेनैव परमाधिं नयेद्यदि ।
 कृत्वा तदाऽऽधिलिखितं पूर्व वाऽस्य समर्पयेत् ॥

इति । यद्बन्धस्वामिनि धनं प्रयुक्तं तत्तुल्येनैव धनेन परं-- धनिकान्तरं आधिं नयेत् । न त्वधिकेनेति चन्द्रिकाकारः । गोप्याधेर्भोग्याधित्वमप्याह विष्णुः--