पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७५

पुटमेतत् सुपुष्टितम्
244
श्रीसरस्वतीविलासे

 पारिभाषिकोऽपि गोप्याधिर्भोग्याधिरपि भवतीति ।

अपिशब्दः कालादीन् समुच्चिनोति । पारिभाषिकः-- परिभाषया प्राप्तः । यथा-- अयमाधिस्त्वत्प्रयुक्तधने द्विगुणीभूते यदि न मोच्येत तद्दिनमारभ्य द्विगुणधनस्य भोग्य इति गोप्यभोग्याधिः । दीपोत्सवादिसमये तत्प्रयुक्तं मूल्यमेव धनं यदि न दीयते तदाप्रभृति प्रयुक्तधनमारभ्य वा अयमाधिर्भोग्याधिरिति कालकृतभोग्याधिः । पारिभाषिक इति वचनेनेदं ज्ञाप्यते-- भोग्याधिरपि कालाधिर्भविष्यति । यथा-- अयं भोग्याधिः स्वप्रयुक्तधनवृद्ध्यर्थदीपोत्सवकालपर्यन्तमनुभुज्यतां तदा यदि मूल्यं न दास्यामस्तदा आधिस्तव भविष्यतीति भोग्यकालाधिः । भोग्यगोऽप्याधिमप्याह गौतमः । तथा च गौतमसूत्रं--

 भोग्याधिरपि गोप्याधिर्भवतीति पारिभाषिकत्वाद्व्यवहारस्येति ।

 पारिभाषिकत्वं परिभाषानिबन्धनमित्यर्थः । अथायं भोग्याधिर्दीपोत्सवकालपर्यन्तं प्रयुक्तं धनं वृद्ध्यर्थमुपभुज्यतां; तदानीं प्रयुक्तधनाप्रदाने दीपोत्सवप्रभृति न भुज्यतां । ततःपरं प्रयुक्तधने वृद्ध्या द्विगुणीभूते द्वैगुण्यानन्तरं तद्धनं यदि न दास्यामः तदाऽऽधिस्तव भविष्यतीति । अन्वाधिरप्येवमेवोह्यः । खण्डाधिरपि दीपोत्सवपर्यन्तं मासमात्रं मासद्वयपर्यन्तं वा पारिभाषिकवृद्ध्या यावद्वृद्धं धनं तावद्धनं मूलीकृत्य तद्धनस्याधकिरणं खण्डाधिरिति । अत्र विशेषमाह विष्णुः-- स क्वचित्क्रियान्त इति । अयमर्थः-- अयं-- पूवोक्ताधिः । क्रियान्तः क्वचित् विषयभेदेन दीपोत्सवादिसमये द्विगुणद्रव्याप्रदाने तद्द्विगुणद्रव्य