पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७६

पुटमेतत् सुपुष्टितम्
245
व्यवहारकाण्डः

स्यायमाधिर्विक्रीत इति । क्रियान्तकालाधिद्विगुणाधिश्च भोग्याधिरपि क्रियान्तः । यथा-- अयमाधिर्वृद्ध्यर्थमनुभूयतां दीपोस्सवादिसमये मूल्यं यदि न दीयते तदा मूल्यस्यैव अयमाधिर्विक्रियत इति । एषु क्रयान्तसङ्करादिषु परिभाषावशात् क्रयान्ततायां तेषां क्रयधर्माः--

 पूर्वाह्णे ग्राममध्ये च? ज्ञातिसामन्तसन्निधौ ।
 हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी ॥

इत्यादिधर्मास्सन्त्येव । अतो ज्ञात्यादिभिः प्रत्ययेनैवेत्यादिवक्ष्यमाणन्यायेन ज्ञात्याद्यनुमत्या भाव्यम् । यदा तु शान्तलाभे धने बन्धकस्य तदैवोपस्थितस्य मोचनात्प्राग्ग्रहणकस्य मरणादिर्भवेत्तदा किं कर्तव्यमित्यत आह । बृहस्पतिः--

 हिरण्ये द्विगुणीभूते मृते नष्टेऽधमर्णके ।
 द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥
 रक्षेद्वा कृतमूल्यं तु दशाहं जनसंसदि ।
 ऋणानुरूपं परतो गृहीत्वाऽन्यांस्तु वर्जयेत् ॥

इति । कात्यायनस्तु--

 आधाता यत्र न स्यात्तु धनी बन्धं निवेदयेत् ।
 राज्ञस्ततस्स विख्याप्य विक्रयं कुरुते धनी ॥
 सवृद्धिकं गृहीत्वा तु शेषं राजन्यथार्पयेत् ।

राजन्यथार्पयेदिति ज्ञात्यादिप्रत्यासन्नाभावविषयम् । तत्सद्भावे तत्रैवार्पणस्य न्याय्यत्वात् । अयमभिसन्धिः-ज्ञात्यादावर्पणान्तो विधिः बहुमूल्यादिविषय एव । रोषार्पणादेस्तत्रैव संबन्धात् । सममूल्ये तु ससाक्षिकं विक्रयी स्वयमेव गृह्णीयात् । स्वल्प